This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 

 
मणिभिराचार्यैः प्रकाशित एव । विभाति, न तु श्रूयते इति ;

अनेन 'भक्त्या त्वनन्यथाया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं

द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ' इति, 'न तु मां शक्ष्यसे

द्रष्टुमनेनैव स्वचक्षुषा । दिव्यं ददामि ते चक्षुः पश्य मे

योगमैश्वरम्' इति, 'तदीक्षणाय स्वाध्यायश्चक्षुर्योगस्तथाप-

रम् । न मांसचक्षुषा द्रष्टुं ब्रह्मभूतः स शक्यते ' इत्या-

दिवचनैः भक्तिज्ञानयोगात्मकदिव्यचक्षुर्गोचरतया भगवद्विग्र-

हस्य स्वस्य च गुरुप्रसादात् उक्तलक्षणदिव्यचक्षुःसंपन्नतया

तत्त्वतस्तस्यानुभूतत्वं व्यज्यते । विभाति, न तु विभातमिति

वर्तमान निर्देशात् भवतामपि भक्त्यादिनिष्ठत्वे तथा प्रकाशत

एव । अतः अस्मिन्नर्थे निस्तन्द्रैः प्रयतितव्यं भवद्भिरिति

श्रोत्रादीन् प्रत्युपदेशः क्रियते । विभाति, न तु दृश्यते इति

स्वतो धवलस्यास्य हरिभुजप्रभानीलिम्ना परभागलाभात् विशे-

दृश्यत्वम् नैसर्गिकश्चैवैत्यस्यापि शशिबिम्बस्य यथा 'लक्ष्म

लक्ष्मीमीं तनोति... किमिव हि मधुराणां मण्डनं नाकृतीनाम् '

इति न्यायादिति ग्रोद्योत्यते । पायात् रक्षत्विति आशिषि प्रा-

र्थ
ने वा लिङ् । पा रक्षणे इति धातुः । नः अस्मानिति स्वस्य
म्य

स्व
मतानुसारेण भगवदुपासकानां च सर्वेषां संग्रहः । पाञ्च-

जन्यः, पञ्चजनाः मनुष्याः । 'स्युः पुमांसः पञ्चजनाः
'

पुरुषाः पुरुषा नरः ' इत्यमरः । तेषां हितः अनिष्टनिवा-
=
 
6
 

 
 
 
 
.