This page has been fully proofread once and needs a second look.

५०
 

 
35
 
मित्यन्वयः। क्षणे क्षणे भगवदनुस्मरणेन पुलककम्पस्तम्भबाष्पाम्भःसंभार-

सूचितविवशहृदयानामित्यर्थः । 'निघ्नः परवशः स्मृतः इति हलायुधः ।

नित्यं भक्तिनिघ्नात्मनामित्यनुवादमुखेन विशिष्टा प्रार्थना क्रियते ।

नित्यं त्वच्चरणारविन्दयुगलध्यानामृतास्वादिना-

मस्माकं सरसीरुहाक्ष सततं संपद्यतां जीवितम् ।'
 

इति मुकुन्दमालोक्तवत् । निचिततरम्
 
= जन्मान्तरसहस्रेषु भृशं संचितम् ।
अमी
 
जन्मान्तरसहस्रेषु भृशं संचितम् ।
 
"
 
= पुरतोऽनुभूयमानाः। पद्माक्षस्य= तत्कालविकसिततरुणारुणक- 40

मलवत् विपुलायतस्निग्धमुग्धारुणशीतलसुभगत्वादिविशिष्टे अक्षिणी यस्य ।

अङ्घ्रिपद्मद्वयतलनिलयाः = पद्मवत् कोमलारुणयोः अङ्गयोः = चरणयोः,

द्वयस्य, तलम् =उदरम्, निलयः = आश्रयः, येषाम् ; पांसवः = रेणवः ।

प्रणमदमरमौलिमालालग्नाः कुसुमपरागाः कमलाकरकमलसंगेन सक्ताः,

कर्पूरपट्टिकादिरेणवो वा; अन्यथा भगवतो नारायणस्य पादयोर्धरणिरे-

णुस्पर्शस्यानुपपत्तेः। पापपङ्कम्=दुष्कर्मरूपं कर्दमम्। सन्मार्गसंचरणविरु-

द्धत्वादन्तःकरणसलिलकलुषीकरणात् मालिन्याच्च पङ्कत्वारोपः। निर्मूलयेयुः

= निरस्तमूलं कुर्युः इति प्रार्थनायां लिङ् । 'तत् करोति...' इति णिच् ।

पांसूनां लोके पङ्कशोषणसामर्थ्यदर्शनात् पापपङ्कनिर्मूलनप्रार्थनेति मन्तव्यम् ।

संसाराब्धिं पिबेयुर्व: कंसारे: पादपांसवः ।

इत्याप्तैरब्धिशोषणसामर्थ्यं पांसूनां प्रकाशितम्, पङ्कशोषणसामर्थ्यं किं पुनः ।
 
,
 
=
 
...
 
विष्णुपादादिकेशस्तोत्रम् १०
 
=
 
10.34 ॰ स्मरणेन EYBCD ] स्मरणे A
10.38 जीवितम् EVABD ] जीवनम् C
 
=
 
10.35 निघ्नः परवशः स्मृतः ] Halāyudhakośa 2.186.
 
10.38 नित्यं
 
जीवितम् ] Mukundamālāstotra 2.22.
 
10.48 तत् करोति ] Vārttika on Astādhyāyī 3.1.26.
 
10.50 संसाराब्धिं पिबेयुर्वः कंसारेः पादपांसवः ] Source not known.
 
10.34 ॰कम्प॰ ABCD ] °कुम्भ° EY1
10.41 ॰ मुग्धारुण• EXACD ] मुग्धायारुण
 
B 10.42 अङ्घयोः E¥॰ACD ] अङ्ख्या: B 10.43 द्वयस्य ABCD ] युगस्य EV
10.43 रेणवः EYLABD ] om. C 10.44 ° प्रणमदमरमौलि • EXACD ] प्रणमन्मौलि
B 10.44 ° संगेन EY] संवाहन AD; संवहन B; संवाह C 10.45 • पट्टिकादि ०
EXB ] पटीरादि A; वर्तिरादि C; पटीराभि D 10.45 पादयो• EXABD ] पदयो
C 10.46 • संचरण • EXACD ] संचारण B 10.47 विरुद्ध EXAB ] विद्ध C;
विशुद्ध D 10.47 °पङ्क॰ EVACD ] पङ्का B 10.48 तत् करोति EYACD ] करोति
B 10.50 पाद० EVABD ] पद C 10.51 • रब्धि० EXABD ] रधि C
 
45
 
50