2023-09-12 09:32:25 by jayusudindra
This page has been fully proofread once and needs a second look.
25
30
विष्णुपादादिकेशस्तोत्रम् १०
=
इत्युक्तत्वात् । उरु = विस्तीर्णम्, त्रैलोक्यविभवसामरस्यात् । पदम् = सार्वभौ-
मत्वाद्यधिकारः । दैत्यवर्गैः = असुरसमूहै; सपदि त्यज्यते = तत्क्षणमेव
मुच्यते, भ्रष्टश्रीकत्वात् यथा वेनहिरण्यादिभिः । येभ्योऽसूयद्भिरित्युक्तेरन-
सूयद्भिर्भक्तैर्दैत्यैरपि महत्त्वं प्राप्यते इति वैधर्म्येण प्रतीयते, प्रह्लादविभी-
षणादिषु तथा दर्शनात् । मूर्ध्ना धर्तुम् = शिरसा धारयितुम् । तानिति
सामर्थ्यात् सिध्यति ।
आदाय शुक्तिषु वलाहकविप्रकीर्णै
रत्नाकरो भवति वारिभिरम्बुराशिः ।
४९
=
इति मुरार्युक्तवत्। येभ्यः स्पृहयति = यान् प्राप्तुमिच्छति । 'स्पृह ई-
प्सायाम्' 'स्पृहेरीप्सितः' इति चतुर्थी । सर्वगीर्वाणवर्गः; सर्वः=समस्तः,
गीर्वाणानाम् =देवानाम्, वर्गः = समूहः । सर्वशब्देन ब्रह्मादीनामपि संग्रहः।
सततं स्पृहयतीत्यनेन तेषामपि कृच्छ्रलभ्यत्वं ध्वन्यते,
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः।
इति भगवद्वचनात् ।
बर्हिर्मुखाः क्रतुभुजो गीर्वाणा दानवारयः ।
इत्यमरः। चकारो वाक्यार्थसमुच्चये। नित्यम् = सर्वदा, भक्तिनिघ्नात्मना-
-
10.17 स संचरिष्णुर्भवनान्तरेषु नमः ] Siśupālavadha 1.46.
10.25 आदाय शुक्तिषु ... वारिभिरम्बुराशि: ] Anargharāghava 2.9.
10.27 स्पृहेरीप्सितः ] Astādhyāyī 1.4.26.
10.30 देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ] Bhagavadgīta 11.52.
10.32 बर्हिर्मुखाः क्रतुभुजो गीर्वाणा दानवारयः ] Amara 1.1.9.
10.17 मकुटोपल ABCD ] मकुटोपरि EV 10.17 °करैस्त्रि॰ EX ACD ] करं त्रि B
10.18 • सामरस्यात् ABCD ] सामग्यात् EX
भौमाद्यधि A
10.19 • भौमत्वाद्यधि
EXBCD ]
10.20 श्रीक-
10.19 तत्क्षणमेव EXBD ] क्षणमेव A; तत्क्षणं वि C
त्वात् ABCD ] श्रीवत्वात् EY1 10.21 महत्वं EY CD ] महत्पदं AB
10.21 वैधर्म्येण
E¥"'ACD ] वैधर्म्येण्य B 10.22 दर्शनात् ABD ] दर्शनाच्च E¥‡‡C 10.27 इति EV
ACD ] om. B 10.28 देवानाम् EXABD ] देवतानाम् C 10.29 : अनेन तेषामपि
E¥ACD ] अनेनेत्यन्येषामपि B 10.29 ॰ लभ्यत्वं EXC] लब्धत्वं AD; लभ्यत B
10.33 निम्नात्म° EXACD ] नित्यात्म B