This page has not been fully proofread.

४४
 
विष्णुपादादिकेशस्तोत्रम् ९
 
पञ्चभूतात्मकैर्भावैः पञ्चभूतात्मकं वपुः ।
 
आप्याय्यते यदि ततः पुंसो भोगोऽत्र किंकृतः ॥
इत्याद्याप्तवचनात्। उच्यते – अमूर्तस्याकाशस्य तावदवकाशदानेनैव चरि-
तार्थत्वात्, पवनदहनसलिलानां तु प्रेरणदहनार्द्रीकरणमात्रोपयुक्तत्वात् पृ- 30
थिव्या एवोपादानत्वं काठिन्यगुणयोगाद् धारणाशक्तिश्च तस्या एवेति सैव
प्रधानमिति वैद्यकादिषु स्थापितत्वात् । अत्र च मूलप्रकृतिरूपत्वेन देवतायाः
स्तुतौ तात्पर्यान्न कश्चिद्विरोधः ।
 
इयं हि भूमिर्भूतानां शाश्वती योनिरुच्यते ।
 
इति मनुवचनं चात्र प्रमाणम्, 'यामाहुः सर्वभूतप्रकृतिरिति इति तन्मूलं 35
महाकविवचनं च । धत्ते आधारशक्तिरूपेणापतनाय धारयतीत्यर्थः । तत्त्व-
योगात; महदादिपृथिव्यन्तानि त्रयोविंशतितत्वान्यनुप्रविश्येत्यर्थः, कार
 
परमार्थभूतस्य परमेश्वरस्य,
 
णस्य कार्येष्वनुवृत्तेः। अथवा, तत्त्वस्य =
योगात् = अनुप्रवेशात् ।
 
गामाविश्य च भूतानि धारयाम्यहमोजसा ।
 
इति भगवद्वचनात्। अथवा, पुंस इति प्रस्तुतत्वात्, तच्छब्देनेश्वरः परा-
मृश्यते; तस्य भावस्तत्त्वम्, तस्य योगात् = संबन्धात्; भगवदभिन्नत्वा-
दित्यर्थः ।
 
नित्यैवैषा जगन्माता विष्णोः श्रीरनपायिनी ।
यथा सर्वगतो विष्णुस्तथैवेयं द्विजोत्तम ॥
 
9.28 पञ्चभूतात्मकैर्भावैः किंकृतः ] Visnupurāņa 6.7.18.
 
9.34 इयं हि भूमिर्भूतानां शाश्वती योनिरुच्यते ] Manusmrti 9.37.
 
9.35 यामाहुः सर्वभूतप्रकृतिरिति ] Abhijñānaśākuntala 1.1.
 
9.40 गामाविश्य च भूतानि धारयाम्यहमोजसा ] Bhagavadgīta 15.13.
 
9.45 नित्यैवैषा ज् द्विजोत्तम ] Visnupurāņa 1.8.17.
 
...
 
"
 
9.28 आप्याय्यते EXABD ] आप्यायते C 9.29 इत्याद्याप्त • EDBCD ] इत्याप्त A
9.30 चरितार्थत्वात् ABCD ] परिचितत्वात् EVI 9.30 • दहना• AD ] om. Ey;
पचना BC 9. 31 धारणा AC ] धार• EV1; धारण BD 9.35 तन्मूलं ABD ] तन्मूल °
EXC 9.36 वचनं च ABD ] • वचनच्च E¥"IC 9.41 भगवद्वचनात् ABD ] भग-
वद्वचनाच्च EVIC 9.42 तस्य भाव EYC] तदभावस्य भाव ABD 9.42 योगात्
EL''ABD ] तदभावस्य योगात् C
 
40
 
45