This page has not been fully proofread.

40
 
45
 
विष्णुपादादिकेशस्तोत्रम् ८
 
=
 
अधीयत इति प्रयोगवत् । मधुरम् = अविकृतम् ; सदा प्रसन्नमित्यर्थः, 'अ-
नुल्बणत्वं माधुर्यम्' इति वचनात् । मुखमेव, अम्भोरुहं = तामरसं यस्याः,
सौकुमार्यसौरभ्यादिगुणयोगात् । सुन्दराङ्गीम् सुन्दराण्यङ्गानि यस्याः।
अन्यूनानतिरिक्तं यदङ्गप्रत्यङ्गसौष्ठवम्।
सुश्लिष्टसन्धिबन्धं यत्तत्सौन्दर्यमिति स्मृतम् ।
 
50
 
इति भावप्रकाशः । अङ्गग्रहणं प्रत्यङ्गोपाङ्गलक्षणम्;
अङ्गं शिरः कटी वक्षः कुक्षिः पादावितीरितम् ।
जङ्घोरुबाहुग्रीवादि प्रत्यङ्गमिति कथ्यते ॥
 
उपाङ्गं नासिकानेत्रभ्रूकपोलाधरादिकम् ।
 
इति वचनात् । सुन्दराङ्गीमित्यनेन परब्रह्मरूपस्य भगवत इव तच्छक्तिरू-
पाया देव्या अपि भक्तजनध्यानपूजनाद्यर्थं लीलागृहीतविग्रहत्वं प्रकाश्यते ।
अशेषैः =सर्वैः; अपिरभिव्याप्तौ । वन्द्याम् उपासितुं योग्याम्; सर्वेषा-
मपि सुखार्थित्वात् सुखस्य च परदेवताप्रसादमन्तरेणानुपपत्तेरिति भावः।
मुरभिदुरोमन्दिराम् = मुराख्यमसुरं विदारितवानिति भगवान्, तस्य उ
रः = वक्षःस्थलं मन्दिरम् नियतं निवासगृहं यस्याः । 'दक्षिणस्तनाद्ध-
र्मः' इति श्रीभागवतवचनात्; धर्मोत्पत्तिस्थानतया भगवदुरसः श्रियश्च
धर्मेणैव रक्षणीयत्वादिति भावः । मुरभिदुरोमन्दिरामित्यनेनैतदप्याह
यच्छक्तिमत्परतन्त्रत्वाच्छक्तेर्भर्तृवशवर्तिनीत्वाच्च धर्मपत्न्या उभयथापि भग-
5 वत्प्रसाद एव देव्युपासकानामपि फलप्रद इति,
 
55
 
=
 
=
 
४१
 
8.38 अनुल्बणत्वं माधुर्यम् ] Daśarūpaka 2.36.
 
8.41 अन्यूनानतिरिक्तं स्मृतम्] Bhāvaprakāśana 3.99.
8.45 अङ्गं ……. ॰कपोलाधरादिकम् ] Bhāvaprakāśana 3.100.
8.52 दक्षिणस्तनाद्धर्म: ] Bhāgavatapurāna 3.12.25.
 
8.37 धात्वर्थेऽपि मन्दग्रहणं स्पष्टतार्थम् । इङ् अध्ययने इति धात्वर्थेऽप्यधीयत AC ]
धात्वर्थत्वेऽप्यत्यधिक (eyeskip) EY॰'D; धात्वर्थत्वेऽप्यत्यधीत (eyeskip) B
 
8.39 सौ-
कुमार्य • यस्याः । EL"ACD ] om. ( eyeskip ) B 8.42 प्रत्यङ्गोपलक्षणार्थम्॰ ELC]
प्रत्यङ्गोपाङ्गलक्षणम् AD; प्रत्यङ्गोपलक्षणम् B 8.47 भक्तजन ABD ] • भक्तिज्ञान• E¥C
8.48 उपासितुं ABCD ] उपासयितुं EX
नुपपत्तेरिति ACD ] • भावादिति EYB
C; निलयतं D
 
8.49 सुखस्य च ABD ] सुखस्य EYC 8.49
8.51 नियतं EYA ] नियतमेव B ; निधायकम्