2023-09-12 08:52:43 by jayusudindra
This page has been fully proofread once and needs a second look.
=
'वृद्धाच्छः' इति छः । चकार: पूर्ववाक्यार्थसमुच्चये। पुंसाम् = पुरुषा-
णाम्, इत्यर्थान्तरसंक्रमितवाच्येन ध्वनिना पुराकृतसुकृतशालित्वभक्तिम-
त्त्वादिकं द्योत्यते । कारुण्यार्द्रैः = कृपया शीतलैः, इत्यनेन प्रत्युपकार
निरपेक्षं स्वत एव भक्तानुग्रहपरत्वं व्यज्यते । कटाक्षैः = नेत्राञ्चलैः।
४०
अपाङ्गे तारविक्षेपः कटाक्ष इति कथ्यते ।
इति भावप्रकाशः । सकृत् = एकवारम् । अपिशब्दो विरोधद्योतकः। लोके
सकृत् पतितानां जलधारादीनां बीजाङ्करादिनिष्पादनशक्त्यदर्शनाद्, एतेषां
त्वनुपमेयो
समृद्धयः। बहुवचनेन तासां बाहुविध्यमाह । कुलीनत्वादीनां तत्त्वज्ञानपर्य-
न्तानां संपत्त्वात्,
.-
स श्लाघ्यः स गुणी धन्यः स कुलीनः स बुद्धिमान् ।
स शूरः स च विक्रान्तो यं त्वं देवि निरीक्षसे ॥
इत्यादिवचनैः
=
स्युः = भवेयुः इति संभावनायां लिङ् । तत्र नानुपपत्तिरित्यर्थः । कुन्दे-
न्दुस्वच्छमन्दस्मितमधुरमुखाम्भोरुहाम् = कुन्दपुष्पवत् धावल्यात्, इन्दु-
वत् प्रभाबाहुल्यात्, स्वच्छेन = निर्मलेन, दशनप्रभाणां प्रसरात्; मन्देन
= उत्तमाङ्गनास्वाभाव्यादनुद्धतेन स्मितेन = हासेन; 'स्मिङ् ईषद्धसने '
इति धात्वर्थेऽपि मन्दग्रहणं स्पष्टतार्थम्; इङ् अध्ययने इति धात्वर्थेऽपि,
-
"
1:
2
=
8.18 त्यदादीनि च ] Astādhyāyī 1.1.74,
8.19 वृद्धाच्छः ] Astādhyāyī 4.2.114.
8.23 अपाङ्गे तारविक्षेपः कटाक्ष इति कथ्यते ] Bhāvaprakāśana 5.147.
8.30 स श्लाघ्यः देवि निरीक्षसे ] Visnupurāna 1.9.131.
व्यज्यते EVOL
● निष्पादन •
20
8. 21 • भक्तिमत्त्वादिकं EXBCD ] भक्तिमत्त्वं A
8.21 कारुण्याद्रैः
BCD ] om. (eyeskip ) A 8.25 जल BCD ] जलद EDIA 8.25
EXBCD ] निष्पाद A 8.25 शक्त्यदर्शनाद् EXABD ] शक्तिदर्शनाद् C
8.26 त्वनु-
पमेयो E¥॰±ACD ] त्वनुमेयो NVP B 8.28 ° पर्यन्तानां EXABD ] पर्यन्तादीनां C
8.32 तत्र नानु° EVABD ] न तत्रानु C 8.34 स्वच्छेन EKABC ] स्वच्छन्देन D
8.34 प्रसरात् E¥BCD ] प्रसरणा A 8.35 मन्देन EYLAB ] स्पन्देन C 8.35 °स्वा-
भाव्यादनुद्धतेन EV॰BCD ] स्वभावादनुद्धते A 8.35 स्मितेन EXC] स्थितेन ABD
8.35 स्मिङ् ईषद्धसने EXABD ] om. C
30
35