2023-09-12 08:46:02 by jayusudindra
This page has been fully proofread once and needs a second look.
विष्णुपादादिकेशस्तोत्रम् ८
15
कारुण्यार्
कुन्देन्दुस्वच्छमन्दस्मितमधुरमुखाम्भोरुहां सुन्दराङ्गीं
वन्दे वन्द्यामशेषैरपि मुरभिदुरोमन्दिरामिन्दिरां ताम् ॥ ८ ॥
5
वाक्
=
-
परशक्तिरूपा पार्वती। आदिशब्दात् रतितुष्टिपुष्टिकान्तिस्वाहास्वधादिसंग्र-
हः। एवंप्रकारनानात्वविशिष्टतया, मुनयः = महर्षयः, विदुः = जानन्ति ।
'अर्थो विष्णुरियं वाणी', 'श्रीर्भूमिर्भूधरो हरिः ।',
शंकरो भगवाञ्छौरिर्गौरी लक्ष्मीर्द्विजोत्तम ।
देवतिर्यङ्मनुष्येषु पुंनामा भगवान् हरिः ।
स्त्रीनाम्नी लक्ष्मीर्मैत्रेयनानयोर्विद्यते परम् ॥
इत्यादिपुराणवचनात्, 'परास्य शक्तिर्विविधैव श्रूयते' इत्यादिश्रुतेश्च । त
था च, अम्बास्तवे-
-
=
दाक्षायणीति कुटिलेति गुहारिणीति
कात्यायनीति कमलेति सरस्वतीति ।
एका सती भगवती परमार्थतोऽपि
संदृश्यसे बहुविधा ननु नर्तकीव ॥
8.8 अर्थो विष्णुरियं वाणी Visnupurāna 1.8.18.
8.8 श्रीभूमिधरो हरि: ] Visnupurāņa 1.8.19.
8.9 शंकरो भगवाञ्छौरिगौरी लक्ष्मीर्द्विजोत्तम ] Visnupurāņa 1.8.23.
8.11 देवतिर्यङ्मनुष्येषु परम् ] Visnupurāna 1.8.35.
8.12 परास्य शक्तिर्विविधैव श्रूयते ] Svetāśvataropanisad 6.8.
8.17 दाक्षायणीति नर्तकीव ] Ambāstava 18.
३९
...
8.7 एवंप्रकारनाना॰ EY ACD ] एवंनानाप्रकार B 8.12 परास्य EVBC ] परा AD
8.12 °श्रुतेश्च EYBC ] om. AD
सरस्वतीति ABCD ] कलावतीति EV1
8.14 गुहारिणीति ABCD ] कुहारिणीति EV 8.15