This page has been fully proofread once and needs a second look.

विष्णुपादादिकेशस्तोत्रम् ८
 
-
 
इति कः। पतञ्जल्यादिरूपेण जगति ज्ञानप्रतिष्ठापनात् । सर्वसाक्षी, सर्व- 45

स्य शुभाशुभस्य कर्मणः , साक्षादीक्षिता । अपरिलुप्तदृक् स्वरूपेण सदा

जागरूकत्वात् 'यः सर्वज्ञः सर्ववित्' 'साक्षी चेता केवलो निर्गुणश्च' इ-

त्यादिश्रुतिवचनैः । सकलविषभयात्; विपूर्वात् 'षो ऽन्तकर्मणि' इत्यस्मात्

कप्रत्यये विषशब्दसिद्धिः । अतो विशेषेण स्यति = हन्ति - इति विषम्
-
कालकूटादिः; ततो यद् भयम् =उद्वेगः, तस्मात् निमित्तात्; पातु = रक्षतु, 50

इत्यैहिकफलप्रार्थना । 'भीत्रार्थानां भयहेतुः' इति पञ्चमी । सकलग्रहणात्

कालकूटादिभ्योऽपि क्रूरात् संसारविषभयात् पात्विति परलोकसुखप्रार्थना ;

मुक्तिं ददात्वित्यर्थः । तत्र हेतुः भोगीश्वर इति । भोगिनाम् =नागानाम्,

स्वामी । अतस्तक्षकादिभ्यो भयं न संभवति, तेषां तदधीनवृत्तित्वात् । भो-
गी =
परमसुखानुभवपरः, पालनैकशीलो वा; ईश्वरः
 
-
 
गी
 

परब्रह्मरूपश्च
 
सर्पाणां शरीरं
 
३८
 
=
 
-
 

अतः संसारभयमपि नाशयितुं शक्त इत्यर्थः। भोगः
 
= सर्पाणां शरीरं
फणा वा, तद्वन्तो भोगिनः, सौख्यविशिष्टाश्च ।
 

 
भोगो राज्ये धने सौख्ये पालनाभ्यवहारयोः ।

फणे देहे च सर्पस्य
 
……….॥
इति वैजयन्ती । अत्र परिकरोऽलंकारः ॥ ७ ॥
 
"
 
7. 47 यः सर्वज्ञः सर्ववित् ] Mundakopanisad 1.1.9.
 
7.47 साक्षी चेता केवलो निर्गुणश्च ] Svetāśvataropanişad 6.11.
 
7.51 भीत्रार्थानां भयहेतुः ] Astādhyāyī 1.4.25.
 
7.59 भोगो राज्ये. सर्पस्य ] Vaijayantī 6.1.44.
 
-
 

 
इत्थं भगवन्तमनन्तमुपास्य, इदानीं सकलपुरुषार्थकल्पवल्लीं जगन्मातरं म

हामायारूपां भगवतीं मङ्गलदेवतामुपास्ते -
 
7.46 अपरिलुप्तदृक् ABCD ] अनिरुद्धदृक् EY 7.47 निर्गुणश्च ABCD ] निर्गुणः EY1
7.48 विपूर्वात् EXC] om. ABD 7. 49 स्यति ABCD ]om. EV 7.49 हन्ति
 
EVAC ] निहन्ति B 7.50 ततो EXABD ] अतो C 7.58 राज्ये ABCD ] राये
EY 7. 58 धने ABCD ] गृहे EX 7.62 महामाया• EYABD ] माया C 7.62
उपास्ते- EV॰1 ] उपास्ते – वाग्भूगौरीत्यादि ABCD
 
55
 
60