2023-09-10 12:46:17 by ambuda-bot
This page has not been fully proofread.
30
विष्णुपादादिकेशस्तोत्रम् ७
लस्येवेति ध्वन्यते ।
ज्ञानस्वरूपो भगवान् यतोऽसा-
वशेषमूर्तिर्ननु वस्तुभूतः ।
अतो हि शैलाब्धिधरादिभेदाञ्
जानीहि विज्ञानविजृम्भितानि ।
इति वचनात् । पृथुविमलयशाः = लोकविस्तीर्णं सकललोकवलक्षभूतं च
यशः = कीर्तिर्यस्य सः; पुथुतरयशसेति वा पाठः । इत्थंभूतलक्षणे तृतीया।
सर्ववेदैः = चतुर्भिरागमैः, 'सहस्रशीर्षा पुरुषः' इत्यादिवचनैः, वेद्यः =
ज्ञेयः । अन्यैः प्रमाणैरवेद्यस्वरूप इत्यर्थः, 'तं त्वौपनिषदं पुरुषं पृच्छामि ।'
35 इति श्रुतेः, 'वेदैश्च सर्वैरहमेव वेद्यः' इति भगवद्वचनाच्च । विश्वस्य = लोक-
स्य, शश्वत् =सदा, पाता = रक्षिता; रक्षित्रन्तराभावात् शश्वद्ग्रहणम् । तत्र
हेतु: सकलसुररिपुध्वंसनः । समस्तानामसुराणां प्रलम्बचाणूरमुष्टिकधेनु-
कादीनां नाशनः; कर्तरि ल्युट् । अथवा
-
फणामणिसहस्रेण यः स विद्योतयन् दिशः ।
सर्वान् करोति निर्वीर्यान् हिताय जगतोऽसुरान् ॥
इत्युक्तप्रकारविशिष्टः । पापहन्ता, कीर्तनश्रवणादिना पातकान्निवर्तकः ।
अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः ।
पुमान् विमुच्यते सद्यः सिंहह्नस्तैर्मृगैरिव ॥
इत्यादिपुराणवचनात् । सर्वज्ञः = सर्वं जानातीति 'इगुपधज्ञाप्रीकिरः कः '
=
40
7.30 ज्ञानस्वरूपो .. विज्ञानविजृम्भितानि ] Visnupurāņa 2.12.39.
7.33 सहस्रशीर्षा पुरुषः ] Rgveda 10.90.1.
7.34 तं त्वौपनिषदं पुरुषं पृच्छामि ] Brhadāranyakopanisad 3.9.26.
7.35 वेदैश्च सर्वैरहमेव वेद्यः ] Bhagavadgīta 15.15.
7.40 फणामणिसहस्रेण जगतोऽसुरान् ] Visnupurāna 2.5.15.
7.43 अवशेनापि सिंहह्नस्तैर्मृगैरिव ] Visnupurāņa 6.8.19.
7.44 इगुपधज्ञाप्रीकिरः कः ] Astādhyāyī 3.1.135.
३७
...
7.31 ° लोकवलक्ष • EY1 ] दोषविपक्ष ABD; दोर्विचक्षण C 7.34 ज्ञेय: ABD ] om.
EXC 7.35 • वचनाच्च EXC ] वचनात् ABD 7.37 • सुररिपु° EVABC ] रिपु D
7.37 • चाणूर • EY] विविद ACD; om. B 7.41 श्रवणादिभि: ABC ] श्रवणादिना
EY"1; श्रवादिभिः D