This page has not been fully proofread.

३६
 
विश्वस्य सर्वस्य जगतः, ईश्वरः = स्वामी, तस्य। प्रवरशयनकृत्
मण्डलीकृतेन स्वभोगमण्डलेनोत्कृष्टतल्पनिर्माता । अथवा, 'शीङ् स्वप्ने' इ-
ति धात्वर्थाश्रयणात् प्रशस्तनिद्रासुखजनकः, शय्यात्वेनेत्यर्थात् । अनिद्रस्य
भगवतो निजस्वरूपानुसन्धानस्य निद्रात्वेन नाटितत्वात् प्रवरत्वम्,
एकार्णवे ततस्तस्मिन् शेषशय्यास्तृते प्रभुः ।
ब्रह्मरूपधरः शेते भगवानादिकृद्धरिः ॥
आत्ममायामयीं दिव्यां योगनिद्रां समाश्रितः ।
 
=
 
=
 
"
 
विष्णुपादादिकेशस्तोत्रम् ७
 
आत्मानं वासुदेवाख्यं चिन्तयन् परमेश्वरम्॥
 
इति श्रीविष्णुपुराणवचनात्। विश्वेश्वरस्य प्रवरशयनकृदित्यनेन आधे-
यानुगुण्येन ह्याधारेण भवितव्यम् । अतस्तद्वहने कोऽन्यः प्रगल्भते? इति
द्योत्यते। सर्वलोकैकधर्ता, सर्वस्य चतुर्दशसंख्याकस्य भुवनस्य, ए- 15
कः =असहायः, धर्ता = धारकः, इति । अनेन कुक्षिनिक्षिप्तजगदण्डस्य
पुण्डरीकाक्षस्य धारणे शक्तिः प्रकाश्यते ।
 
आदिश्यते भूधरतामवेक्ष्य
 
2
 
"
 
7.10 एकार्णवे ... भगवानादिकृद्धरिः ] Visnupurāņa 6.4.4.
 
7.12 आत्मामायामयीं...परमेश्वरम् ] Visnupurāņa 6.4.6.
 
7. 19 आदिश्यते शेषः ] Kumārasambhava 3.13.
 
कृष्णेन देहोद्वहनाय शेषः ।
 
इति कुमारसंभवोक्तेः । प्रवरशयनकृत् सर्वलोकैकधर्तेति विशेषणाभ्यामन- 20
न्यशक्पयोर्द्वयोः कार्ययोर्युगपदनुष्ठाने निरायासत्वं ध्वन्यते । अन्तः = परि
च्छेदः, तद्रहितोऽनन्तः इति यौगिकेन नामपदेन देशकालवस्तुपरिच्छे-
दरहितत्वमाह । सर्वभूतः अपरिच्छिन्न एव लीलया सर्वम्
जगत्, भूतः = जात: ; सर्वभूतो न तु सर्वीभूत इति, अभूततद्भावाभावात्;
सदात्मन्यसतः प्रपञ्चस्याध्यस्तत्वात् सत एव शिष्यमाणत्वम्, शुक्तिशक-
परिच्छिन्नं
 
=
 
=
 
-
 
=
 
5
 
CD
 
7.5 सर्वस्य जगत: EXBCD ] सर्वजन A 7.5 तस्य EVABD ] यस्तस्य C 7.6
॰ कृतेन EXABD ] कृत C 7.7 धात्वर्थाश्रयणात् EXAB] धात्वर्थश्रवणात् NVP
7.8 नाटितत्वात् E¥ACD ] अङ्गीकृतत्वात् B 7.14 ह्याधारेण ELIABC ] हि
7.16 • निक्षिप्त • EYBCD ] निक्षिप्तस्य A 7. 20 धर्तेति ABD ] धर्तेत्याभ्यां EY1 ;
धर्तेत्येताभ्यां NVP C 7.21 कार्ययोर्युग॰ EL"LACD ] युग B 7.23 एव EXACD ]
om. B 7. 24 जातः सर्वभूतो EYBCD ] जातो A
 
D
 
10
 
25