2023-09-11 07:33:23 by jayusudindra
This page has been fully proofread once and needs a second look.
इति रघुवंशोक्तेश्च । सुपर्णम् ; शोभनं पर्णं पक्षो यस्येति सुरमुनिविहितं
गौणं नाम प्रतिपादयन्, सकलसुरबलसहचरितवलमथनकरतुलितकुलिश-
45
शिखरपतनमपि तृणवदविगणयदमृतहरणविहरणविजितगगनचरनिवहमतु-
लमस्य वैभवमनुस्मारयति कविः । वन्दे; शरीरेण प्रणमामि, वाचा स्तौमि
चेत्यर्थः। मनःप्रावण्यं त्वर्थात् सिद्धमेव, तत्पूर्वत्वात् सर्वप्रवृत्तीनाम् । अत्र
सूक्ष्मम्, अप्रस्तुतप्रशंसा पर्यायोक्तं चालंकाराः, सूक्ष्मार्थप्रकाशनात्, गर्भ-
पतनरूपकार्यमुखेन कारणस्य क्रौर्यस्य प्रकाशनात्, फणिकुलवैरस्य पर्यायेण
50
प्रतिपादनाच्च ॥ ६॥
'तं त्वौपनिषदं पुरुषं पृच्छामि' 'वेदान्तविज्ञानसुनिश्चितार्थाः' इत्यादिव-
चनैर्वेदस्यैव सम्यग्ज्ञानसाधनत्वात् तत्सिद्धये छन्दोमयं शकुन्तराजमुपास्य,
इदानीं भगवन्मूर्तिरूपं परमगुरुरूपं भगवन्तमनन्तमुपास्ते-
विष्णोर्विश्वेश्वरस्य प्रवरशयनकृत् सर्वलोकैकधर्ता
सोऽनन्तः सर्वभूतः पृथुविमलयशाः सर्ववेदैश्च वेद्यः।
पाता विश्वस्य शश्वत्सकलसुररिपुध्वंसनः पापहन्ता
सर्वज्ञः सर्वसाक्षी सकलविषभयात् पातु भोगीश्वरो नः॥ ७॥
6.42 हेमपत्रप्रभाजालं गगने च वितन्वता] Raghuvamsa 10.61.
6.51 तं त्वौपनिषदं पुरुषं पृच्छामि ] Brhadaranyakopanisad 3.9.26.
6.51 वेदान्तविज्ञानसुनिश्चितार्थाः ] Mundakopanisad 3.2.6.
-
O
३५
6.43 हेमपत्र॰ वंशोक्तेश्च EXABD ] om. C 6.44 °तुलित° EXBC ] कलित AD
6.45 ° तृणवदवि EXC ] तृणवदभि ABD
6.45 °हरण EYBC ] हरणरूप A; ह-
रणरण D 6.45 • निवह • EYACD ] नितरमप्य B 6.47 सर्वप्रवृत्तीनाम् E¥ABD ]
तत्प्रवृत्तीनाम् C 6.49 पतनरूप ACD ] पतन EYB 6.52 शकुन्त • EYABD ]
शकुनि C 6.53 ° रूपं EXC ] भेदं ABD 6.53 ● उपास्ते EYC] उपास्ते विष्णो
विश्वेश्वरेत्यादि A; उपास्ते विष्णोरिति B; उपास्ते विष्णो विश्वेश्वरस्येत्यादि D 7.2
पृथुविमलयशाः E¥º'C] पृथुतरयशसा ABD
O