2023-09-10 12:46:16 by ambuda-bot
This page has not been fully proofread.
विष्णुपादादिकेशस्तोत्रम् ६
नस्य, उत्तरकालक्रियायाः पतनस्य च 'समानकर्तृकयोः पूर्वकाले' इति
स्मृतेः समानकर्तृकत्वनियमाद् गर्भाणां कर्तृकत्वं प्रतीयते । संचिन्तनं च
तेषामुदराभ्यन्तरवर्तिनामचेतनकल्पानामनुपपन्नम् । पतनं तु युज्यत एव ।
तत् कथमिति चेत्, उच्यते-
द्विहृदयां च नारीं दौहृदिनीमित्याचक्षते ।
३४
=
=
इति वैद्यकोक्तेः गर्भस्य मातुश्चैकहृदयत्वात् मातॄणां संचिन्तनमेव गर्भाणां
संचिन्तनमित्यभिप्रेत्योक्तम् । अतो न कश्चिद् विरोधः । ईदृशस्य वासस्य
किं निमित्तमित्यत्राह– चञ्चच्चण्डोरुतुण्डत्रुटितफणिवसारक्तपङ्काङ्कितास्यम् ।
चञ्चता ग्रासग्रसनात् चलता, चण्डेन निशिततरकठिनशिखरतया
कुलिशवत् क्रूरेण, उरुणा =विस्तीर्णेन, तुण्डेन =चञ्चुपुटेन, त्रुटितानाम्
खण्डितानाम्, फणिनाम् =नागानाम्, वसायाः =मेदसः, रक्तस्य = रुधि-
रस्य च, पङ्केन = पङ्कवत् सान्द्रेण द्रवेण, अङ्कितम् = चिह्नितम्, कदाचि
दप्यविरहितम्, आस्यम् = मुखम् यस्य इति फणिविषयं वैरानुबन्ध-
माह । रौद्रश्च रसोऽत्र ध्वन्यते । छन्दोमयम् वेदप्रकृतिकम्; 'सुपर्णोऽसि
गरुत्मान् त्रिवृत्ते शिरो गायत्रं चक्षुः स्तोम आत्मा साम ते तनुर्वामदेव्यं
बृहद्रथन्तरे पक्षौ' इत्यादिश्रुतेः वेदस्यैव भगवद्धारणे सामर्थ्यमिति भा
वः । खगपतिं पक्षिराजत्वेन जगदनुग्रहाय वालखिल्यानां तपसा प्रादुर्भूतम् ।
अमलस्वर्णवर्णम्, अग्निना बहुशः शोधितत्वात् श्यामिकारहितस्य काञ्चन-
स्येव स्निग्धारुणोज्ज्वलो वर्णः शरीरकान्तिर्यस्येति प्रकृतिभूतो वर्ण उच्यते ।
तत्तत्फलविशेषकामनया पञ्चवर्णत्वादीनामध्यस्तत्वाद् यथा जलदनीलस्य 40
वासुदेवस्य सितपीतरक्तवर्णादिध्यानविशेष इति न कश्चिद् विरोधः;
"
"
=
6.21 समानकर्तृकयोः पूर्वकाले ] Astādhyāyī 3.4.21.
6.25 द्विहृदयां च नारी दौहृदिनीमित्याचक्षते ] Suśrutasamhitā 3.3.18.
6.36 सुपर्णोऽसि पक्षौ ] Taittirīyasamhita 4.1.10.5, 4.6.5.3 and 5.1.10.5S.
6.27 वासस्य ABCD ] om. Ey
6.29 ° कठिन ABCD ] om. Ev
पक्षौ EY ABC ] पक्षौ यज्ञा यज्ञियं D
B
6. 41
• विशेष EYACD ] om. B
25
6.21 उत्तरकाल° ABCD ] उत्तरकालिक० EXI 6.22 कर्तृकत्वनियमात् गर्भाणां कर्तृ-
कत्वं ABCD ] ॰कर्तृकत्वं (eyeskip) EX*1 6. 25 दौहृदिनी ABCD ] दोहदिनी • E¥1
6.29 ° ग्रसनात् ELC ] ग्रहणात् A; ग्रहात् BD
6.33 विरहितम् ABCD ] रहितम् EVvi 6.36
6.39 अग्निना
प्रकृतिभूतो EL"ACD ] om.
= 30
35