This page has not been fully proofread.

5
 
विष्णुपादादिकेशस्तोत्रम् ६
 
चञ्चच्चण्डोरुतुण्डत्रुटितफणिवसारक्तपङ्काङ्कितास्यं
 
वन्दे छन्दोमयं तं खगपतिममलस्वर्णवर्णं सुपर्णम्॥ ६॥
 
विश्वस्य = ब्रह्माण्डस्यैव, प्राण: ; प्राणयति जीवयतीति धारक उ
च्यते प्राणः, भूतः =जातः, विश्वात्मनो विश्वाधारस्य भगवतो धारणात् ।
अथवा, प्राणः =' परमात्मा ।
 
प्राणस्तु प्रणवे जीवे जीविते परमात्मनि ।
 
इन्द्रिये वायुभेदे ना बलान्तर्यामिणोरपि ॥
 
=
 
=
 
10 इति वैजयन्ती । प्राणहरणप्रवीणफणिनिरसनात्; प्रणवात्मकत्वाद् वायुत्वाद्
वा । अत एव हि निरतिशयवेगत्वम् । 'सुपर्णो वायुवाहनः' इति स्मृतेश्च ।
हरेस्तनुः = मूर्तिभेदः। अपिशब्दो यच्छब्दानुकर्षणार्थः। 'वैनतेयश्च पक्षि-
णाम्' भगवद्वचनात्। चकारो भिन्नक्रमः, यानकेतुस्वरूप इत्यनुकर्षणार्थः।
यानम् =वाहनम्,तत्स्वरूपः, केतुः = ध्वजः, सामर्थ्यात् तच्चिह्नस्वरूपश्च;
15 गरुडवाहनत्वात् गरुडध्वजत्वाच्च भगवतः । संचिन्त्य; जगदण्डखण्डनप-
ण्डितचण्डिमविशिष्टत्वेन निरूप्येत्यर्थः । एवेति दर्शनादीनामनपेक्षितत्वमा-
ह। सद्यः = तदनन्तरमेवेति क्षणान्तरविलम्बाभावः सूच्यते। उरगव-
धूवर्गगर्भाः; उरगाः = नागाः, तेषां वधूवर्गस्य =भार्यासमूहस्य, गर्भाः
कुक्षिस्था जन्तवः; स्वयं पतन्ति । आघाताद्यन्तरेण भयवशात् स्वतो
20 विलीय क्षरन्तीत्यर्थः । संचिन्त्य पतन्तीति पूर्वकालिकक्रियायाः संचिन्त-
=
 
6.4 °ममल॰ EYEL°EKE$'E¥?AB ] ममलं C
 
-
 
6.10 प्राणस्तु प्रणवे बलान्तर्यामिणोरपि ] Vaijayantī 6.1.38.
 
6.11 सुपर्णो वायुवाहन: ] Mahābhārata 13.135.104c.
 
6. 13 वैनतेयश्च पक्षिणाम् ] Bhagavadgītā 10.30.
 
...
 
--=
 
6.9 अथवा प्राणः
 
6.5 जीवयतीति EYCD ] जीवतीति AB 6.6 • धारस्य EYBCD ] धारस्य च A
वायु • EYBCD ] A 6. 10 ° फणि • EYA ] विषफणि
BCD 6.10 ॰वायुत्वाद् EYAC ] वायुतत्त्वात्मकत्वाद् B; वायुतत्त्वादात्मकत्वाद् D
6. 12 अत एव
अपिशब्दो EYACD ] om. B 6. 12 वैनतेयश्च
• इत्यनुकर्षणार्थः
EYAC ] om. BD 6.13 स्वरूप इत्यनुकर्षणार्थः ELºC ] om. A 6. 14 व्यानं वाहनं
तच्चिह्नस्वरूपश्च EXBCD ] स्वरूपश्च (eyeskip) A 6.18 °गर्भाः
EYABC ]
गर्भा: (eyeskip)D
6.19 आघाताद्यन्तरेण ABCD ] आघाताद्यन्तरेणापि EY 6.20
 

 
• पूर्वकालिक° EY ] पूर्वकाल ABCD
 
३३
 
...