This page has not been fully proofread.

विष्णुपादादिकेशस्तोत्रम् ६
 
-
 
-
 
=
 
=
 
=
 
तिवल्लभतया जीवभूतस्यासवस्य मदेन मुदिता च । लोहितालेपनार्द्रा; प्र- 20
स्तावाद् दैत्यानामेव लोहितेन = रुधिरेण, यद्, आलेपनम् = रूषितत्वम्,
तेन, आर्द्रा=चिक्कणमूर्तिः; लोहितेन = अरुणवर्णेन, कुङ्कुमादिना, आ-
लेपनेन =अङ्गरागेण, आर्द्रा = शीतलाङ्गी च । दीप्तांशुकान्ता; उज्ज्वलैः,
अंशुभिः = किरणैः कान्ता = अभिरामा; दीप्तः = हंसादिशिल्पकल्पनो-
द्भासितः, अंशुकस्य =दुकूलस्य, अन्तः पर्यन्तभागो यस्याः । दयि 25
ता = प्रियतमा, लक्ष्मीरिवेत्यर्थः । अथवा स्वयं – प्रियतमेवेति । पू
र्वस्मिन्नर्थे श्लेषोऽलंकारः । उत्तरस्मिन् पुनः श्लेषानुगृहीतोत्प्रेक्षा । अस्येति
मुरारेरिति प्रस्तुतत्वात् भगवतः। 'कौमोदकी गदा' इत्यमरः । का-
मम् = काम्यते - प्रार्थ्यते इत्यभिमतमर्थम्; ईश्वरैक्यानुभवरूपमित्यर्थः ।
प्रदिशतु = ददातु । अत्र कम्राकारेत्यादावर्थश्लेषः पर्यायपरिवृत्तिसहत्वात् 30
सम्यग्वृत्तेत्यादौ शब्दश्लेषः, तदसहत्वात्, लोहितालेपनार्द्रेत्युभयश्लेषश्चोभ-
यरूपत्वादनुसन्धेयः; 'विशेष्यस्यापि साम्ये द्वयोर्वोपादाने श्लेषः ।' इति
लक्षणात्; उपमानोपमेययोर्द्वयोरप्युपादानादविशिष्टोऽयं श्लेषः ॥ ५ ॥
 

 
३२
 
"
 
=
 
इत्थं पञ्चश्लोक्या परमेश्वरस्य प्रपञ्चरक्षणैकसहायभूतां पञ्चायुधीमुपास्य संप्रति
तन्मूर्तिभेदं भगवन्तं गरुत्मन्तमुपासितुमुपक्रमते-
-
 
यो विश्वप्राणभूतस्तनुरपि च हरेर्यानकेतुस्वरूपो
 
यं संचिन्त्यैव सद्यः स्वयमुरगवधूवर्गगर्भाः पतन्ति ।
 
5.28 कौमोदकी गदा ] Amara 1.1.33.
 
5.32 विशेष्यस्यापि साम्ये द्वयोर्वोपादाने श्लेष: ] Alamkārasarvasva 33.
 
2
 
5.20 दैत्यानामति EXABD ] दैत्यानां दैत्यानामति C
5.23 शीतलाङ्गी EYACD ] शीतला B 5.26 दयिता
अथवा स्वयं AB ] अथवान्वयः EVC; अथवा द्वयं D
सहायत्वात् A 5.31 लोहिता॰ EYABC ] योहिता D
तंमूर्तिभेदं ABD
 
D
 
5.22 आर्द्रा EVMACD ] om. B
ABD ] दयितेव EXC 5.26
 
5.30 • सहत्वात् EYBCD ]
 
5.35 तन्मूर्तिभेदं E¥C]
 
5.35 °क्रमते EYLAC ] क्रमते य इति B; क्रमते यो विश्वप्राणभूतेत्यादि
 
35