This page has not been fully proofread.

विष्णुपादादिकेशस्तोत्रम् ५
 
5
 
कम्राकारा मुरारेः करकमलतलेनानुरागाद् गृहीता
सम्यग्वृत्ता स्थिताग्रे सपदि न सहते दर्शनं या परेषाम् ।
राजन्ती दैत्यजीवासवमदमुदिता लोहितालेपना
 
कामं दीप्तांशुकान्ता प्रदिशतु दयितेवास्य कौमोदकी नः ॥ ५॥
 
=
 
"
 
कम्रः =सुन्दरः, 'कमु कान्तौ ' इत्यस्मात् 'नमिकम्पि
रः; आकारः संस्थानविशेषो यस्याः । करकमलतलेन
लस्य पाणेरुदरेण, अनुरागात् निजपराक्रमानुगुणसाहाय्यकरणस्नेहात्,
रत्याख्यभावबन्धप्रकर्षाच्च, गृहीता = धारिता, परिणीता च; सम्यग्वृ-
त्ता = शोभनवर्तुलाकारा, विशुद्धचारित्रा च । 'वृत्तं च वर्तुलम् । आ-
10 चारो वृत्तचारित्रचरित्रचरणानि च ।' इति वैजयन्ती । अग्रे स्थिता
सदा समरोन्मुखत्वेन पुरतः संनिहिता; 'आज्ञाप्यताम् किं करोमि इ-
ति नियोगानुगुण्येन दृष्टिगोचरे स्थिता च। परेषाम्=शत्रूणाम्, दर्शनम्
रणोद्योगेनाभिमुखीभूयाग्रे स्वप्रकाशनम्, सपदि न सहते = शीघ्रमे-
व न क्षमते, समग्रदर्शनात् पूर्वमेव तेषामुपसंहरणात्; परेषां भर्तुरन्येषां
15 दर्शनम् = तैरात्मनो विलोकनं स्वकर्तृकं वा तद्दर्शनम्, सपदि न सह-
ते; कुलाङ्गनात्वादाशु तिरोभावात् । राजन्ती = दीप्यमाना, तेजोमयत्वात्;
मङ्गलालंकारविशिष्टतया शोभमाना च । दैत्यजीवासवमदमुदिता, असुरा-
णां प्राणरूपेण, आसवेन = मधुरसेन स्वया तद्रसस्यादरेण पीयमानत्वाद्,
अर्थात् पीतेन, यो मदः = चित्तोल्लासः तेन मुदिता = हृष्टा; दैत्यानाम-
5.5 नमिकम्पि ] Astādhyāyī 3.2.167.
 
=
 
-
 
=
 
=
 
5.10 वृत्तं च वर्तुलम् । आचारो वृत्तचारित्रचरित्रचरणानि च ] Vaijayantī 3.6.115.
 
=
 

 
३१
 
=
 
EY /v1 5.18 तद्रस• EXABD ] सद्रस C 5.19 चित्तोल्लासः
मदः चित्तोल्लासः B
 
,
 
• इत्यादिना
 
पद्मवत् कोम-
आदिना र: ABD
 
5.5 नमिकम्पि £ ] नमिकम्पिस्म्यजसकमहिंसदीपो रः। EY॰1 5.6 इत्यादिना E¥C ]
5.8 निजप ... गृहीता EXACD ] om. B 5.9 • वर्तुलाकारा
EVC ] वर्तुलरूपा ABD 5.10 ॰ चरित्रचरणानि EXACD ] चरणानि B 5.11 पुरतः
संनिहिता ABD ] पुरतो निहिता ED; परतः संनिहितः C 5.14 शीघ्रमेव ABCD ]
शीघ्रं EXVI 5.14 ॰संहरणात् EXABD ] हरंआत् C
 
5.18
 
मधुरसेन ABCD ] om.
EVACD ] चित्तेन यो