This page has not been fully proofread.

३०
 
विष्णुपादादिकेशस्तोत्रम् ५
 
निवर्त्यत्वात्
 
बन्धोऽस्याविद्यया पुंसो विद्यया च विमुच्यते ।
 
इत्यादिवचनैः; अतः, तद्रूपो नन्दकः । विदेहकैवल्यरूपनित्यानन्दप्रार्थनो-
पपत्तिः,
 
पुण्यरज्ज्वा व्रजेदूर्ध्वं पापरज्ज्वा व्रजेदधः ।
 
द्वयं ज्ञानासिना छित्वा विदेहः शान्तिमृच्छति ॥
 
इत्यत्रापि ज्ञानात्मकं नन्दकमभिप्रेत्य ज्ञानासिनेत्युक्तिः । उपमात्रालंका-
रः ॥ ४॥
 
विद्यातत्त्वात्मकमसिरत्नमुपास्य, इदानीम्,
 
बुद्धिरस्यास्ते गदारूपेण माधवम्।
 
इति वचनात् बुद्धितत्त्वात्मिकां गदामुपासितुमुपक्रमते, विशुद्धबुद्धिविधेय-
त्वाद् विद्यायाः,
 
नास्ति बुद्धिरयुक्तस्य न चाबुद्धस्य भावना ।
इत्यादिभगवद्वचनात्
 
सर्वेषामेव लाभानां प्रज्ञालाभः परः स्मृतः ।
 
इति, 'शुद्धा हि बुद्धिः किल कामधेनुः ।' इत्यादिवचनात्-
4.52 बन्धोऽस्याविद्यया पुंसो विद्यया च विमुच्यते ] Source not known.
 
4.56 पुण्यरज्ज्वा शान्तिमृच्छति ] Source not known.
 
4.60 बुद्धिरस्यास्ते गदारूपेण माधवम् ] Visnupurāņa 1.22.69.
 
...
 
4.63 नास्ति बुद्धिरयुक्तस्य न चाबुद्धस्य भावना ] Bhagavadgīta 2.66.
 
4.65 सर्वेषामेव लाभानां प्रज्ञालाभः परः स्मृतः ] Source not known; cf. प्रज्ञालाभो
हि भूतानामुत्तमः प्रतिभाति माम् । Mahābhārata
 
12.276.33cd.
 
4.66 शुद्धा हि बुद्धिः किल कामधेनुः ] Source not known.
 
4.53 इत्यादि ABCD ] इति EY 4.53 नन्दकः EVC] नन्दकं प्रति AD; न--- कं
 
प्रत B
 
4.56 छित्त्वा EX ACD ] हत्वा B 4.57 ज्ञानात्मकं ABCD ] विज्ञानात्मकं
EV1 4.61 विशुद्धबुद्धि • EXAC ] विशुद्धबुद्धिवृत्ति BD 4.63 चाबुद्धस्य E¥BC ]
चायुक्तस्य AD 4.66 वचनात् EVC ] वचनैश्च कम्राकारेत्यादि ABD
 
60
 
65