This page has been fully proofread once and needs a second look.

२८
 
पट्टिकाकारः संस्थानविशेषः । 'यस्य मूर्तिः' इत्यनेन मूर्तिमत्या देवतायाः

पृथक्त्वं तत्संबन्धित्वं च मूर्ते: प्रकाश्यते । असिः = खड्गः; 'खड्गः प्रचा-

रोऽसिः' इति वैजयन्ती । त्रासाकुलाक्षत्रिदशरिपुवपुःशोणितास्वादतृप्तः =

प्राणापाये भयेन, आकुलानि = तरलानि, अक्षीणि = नेत्राणि येषाम् । ननु 20

महावीराणामसुराणां कथं त्रासाकुलाक्षत्वम् ? कथं च भगवतो धीरोदात्त-

शिखामणेः परमकारुणिकस्य भीतजनहिंसोद्यमश्चाचार्यैः प्रतिपाद्यत इति;

उच्यते – 'भये सर्वेऽपि बिभ्यति इति श्रीरामायणोक्तरीत्या सर्वेषामपि

प्रबलशत्रुवशवर्तित्वेन प्राणापायनिर्णये स्वत एव भयस्य प्रादुर्भाव उपपन्नः,

यथा महाभारतसमरारम्भसंरम्भसमये महावीरस्य सव्यसाचिन: स्नेहकात 25
-
र्योदयः, यथॊोथो च तस्यैव भगवद्विश्वरूपदर्शनेन 'सगद्गदं भीतभीतः प्रणम्य '

इत्यादिवचनैः भीतत्वप्रतिपादनम् । अत एव हि त्रासाकुलाक्षेत्युक्तिः, न

तु त्रासाकुलितेत्युक्तिः, स्वारसिकत्वं द्योतयितुम् । महावीरस्य करुणाकर
-
स्यापि भगवतो धर्मत्राणाय दुष्टजननिग्रहोद्यमोऽपि न दोषाय । 'वध्यः सर्प

इवानार्यः' इति, 'निपातनीया हि सतामसाधवः' इति,

अवध्ये यो भवेद् दोषो वध्यमाने जनार्दन ।

स वध्यस्यावधे दृष्ट इति धर्मविदो विदुः ॥

इत्यादिवचनैः प्रत्युत धर्मत्वावगमात् ।

एकस्मिन् यत्र निधनं प्रापिते दुष्टचारिणि ।
4.19 खड्गः प्रचारोऽसि: ] Vaijayantī 3.7.158.
4. 23 भये सर्वेऽपि बिभ्यति ] Rāmāyana 4.8.34d.
4.26 सगद्गदं भीतभीतः प्रणम्य ] Bhagavadgītā 11.35.
4.30 वध्यः सर्प इवानार्य: ] Mahābhārata 5.71.23.
4.30 निपातनीया हि सतामसाधवः ] Siśupālavadha 1.73.
4.32 अवध्ये यो धर्मविदो विदुः ] Mahabharata V. 80.18.
 
...
 
विष्णुपादादिकेशस्तोत्रम् ४
 
"
 
4.17 देवतायाः EVCD ] निनाया AB 4.18 खड्गः EVC] om. ABD 4.19 °तृप्तः
EXABD ] दृप्त: C
4.20 नेत्राणि ABCD ]om. EV 4. 22 • हिंसोद्यम • EYIC ]
हिंसनोद्यम ABD 4. 22 • पाद्यत इति EYCD ] पाद्यते AB 4.24 स्वत एव ABCD ]
 
स्वयमेव EVI
 
4.25 • संरम्भ० E] om. Eyv1 4.25 • वीरस्य EYABD ] वीर्यस्य
4.26 दर्शनेन EYC] दर्शने ABD 4.26 भीतभीतः EVCD ] भीत: AB
 
4.28
 
C
 
• कुलितेत्युक्तिः EYC] कुलिताक्ष इति AD; कुलिताक्ष इत्युक्ति: B 4.28 वीर-
स्य EY ABD ] वीर्यस्य C 4.29 सर्प EYBC ] सपत्न AD 4.34 एकस्मिन् यत्र
EL"ABD ] एकस्मिन्नत्र C
 
30