This page has been fully proofread once and needs a second look.

विष्णुपादादिकेशस्तोत्रम् ३
 
कार्योपचारात्; तस्य विशेषणं घर्मांशुशोभमिति । आदित्यस्य शोभा = प्र-
80

भेव शोभा यस्य, समस्तार्थप्रकाशकत्वात् ;
 

तेषामादित्यवत् ज्ञानं प्रकाशयति तत्परम् ।

यथा सूर्यस्तथा ज्ञानं यद्विप्रर्षे विवेकजम् ।

इत्यादिवचनैः। अस्मिन्नर्थे समाप्तपुनरात्तत्वदोषप्रसङ्गोऽपि परास्तः। अ-

त्र पूर्वार्धे सूक्ष्मं व्यतिरेकश्चालंकारः, कालरूपस्य सूक्ष्मार्थस्य प्रकाशनात्,
85

धामान्तरेभ्योऽधिकप्रतिपादनाच्च; उत्तरार्धे पर्यायोक्तमुपमा च, रक्तधारा-

क्तत्वकथनभङ्ग्या दितिजविजयस्य प्रकाशनात्, घर्मांशुसादृश्यकथनाच्च ॥ २ ॥
 
२३
 

चक्रस्वरूपं च मनो धत्ते विष्णुः करे स्थितम् ।
 

इति वचनात्, मनः प्रसादाय मनस्तत्त्वात्मकं भगवतः सुदर्शनमेवमुपास्य,

इदानीं राजसाहंकारस्वरूपमिन्द्रियादिंदि शार्ङ्गधनुः श्रेष्ठं ज्ञानकर्मेन्द्रियप्रसाद-
90

नार्थमुपास्ते
 
-
 
अव्यान्निर्घातघोरो हरिभुजपवनामर्शनाध्मातमूर्ते-

रस्मान्विस्मेरनेत्रत्रिदशनुतिवचः साधुकारैः सुतारः ।

सर्वं संहर्तुमिच्छोररिकुलभुवनं स्फारविष्फारनादः

संयत्कल्पान्तसिन्धौ शरसलिलघटावार्मुचः कार्मुकस्य ॥ ३॥
 
Km
 
1
 
3.3 ● विष्फार• EYELESEY ABCD ] विस्फार EB°EKM
 
D
 
2.81 तेषामादित्यवत् ज्ञानं प्रकाशयति तत्परम् ] Bhagavadgīta 5.16.
2.82 यथा सूर्यस्तथा ज्ञानं यद्विप्रर्षे विवेकजम् ] Brahmapurāna 234.60-1.
2.87 चक्रस्वरूपं च मनो धत्ते विष्णुः करे स्थितम् ] Visnupurāņa 1.22.71.
 
2.80 प्रभेव EDIABD ] इव C 2.83 ° पुनरात्तत्व॰EVC] पुनरात्त ABD
धिकप्रतिपादनाच्च EY] अतिशयप्रसङ्गाच्च ABC; अतिशयप्रतिपादनाच्च D
विष्णु: ABCD ] विष्णुर्धत्ते EY 2.88 भगवतःEXC] भगवन्तं ABD
 
2.85 अ-
2.87 धत्ते
2.89 ज्ञा-
न० EYBC ] बाह्याभ्यन्तरज्ञान AD 2.90 उपास्ते EYC] उपास्ते अव्यान्निर्घातघोर
इत्यादि AD; उपास्ते अव्यादित्यादि B