This page has been fully proofread once and needs a second look.

45
 
50
 
55
 
विष्णुपादादिकेशस्तोत्रम्
 

 
=
 
इति श्रुतेः । चक्रम्
 
=रथाङ्गाकारेण विवृत्ततया चक्राख्यम्, 'चक्राभिधानो
 

हरिः' इत्याचार्योक्तेः । चक्रपाणेः; चक्रम् = उक्तरूपं पाणौ यस्येति ; प्रहर-

णान्तरेभ्यः प्रियत्वेन सदा धार्यमाणत्वं द्योत्यते; 'प्रहरणार्थेभ्यः परे नि

ष्ठासप्तम्यौ भवतः' इति सप्तम्यन्तस्य परनिपातः । दित्यां जाता दितिजाः
=
असुराः; 'सप्तम्यां जनेर्डः' इति डः । दितिजानाम्, तनोः = शरीराद्,

गलन्त्या =
खण्डितत्वात् स्रवन्त्या, रक्तस्य = रुधिरस्य, धारया= स्रो-

तसा, अक्ता = लिप्ता, धारा = शिततरः पर्यन्तभागो नेमिसंज्ञः, यस्य
तत्;
 
-
 
गलन्त्या =
 

तत्;
धारास्त्राग्रेऽम्बुसंतत्यां सैन्यादेश्च गतिष्वपि ।
 
-
 

इति वैजयन्ती । अनेन विशेषणेन साधुजनपरित्राणेन धर्मसंस्थापनार्थाय दु-

ष्कृतिजनविनाशनताच्छील्यं ध्वन्यते । शश्वत् = नित्यम्, विश्ववन्द्यम्, वि-

श्वस्य = सर्वस्य लोकस्य, वन्द्यम् = स्तुत्यम्; विश्वस्य परमोपकरणात् ।

वितरतु = ददातु; इत्याशिषि प्रार्थने वा लोट् ;
 

विश्राणनं वितरणं स्पर्शनं प्रतिपादनम्।
 
-
 

इत्यमरः। विपुलम् = विस्तीर्णमिति वितरणक्रियाकर्मणः शर्मणो विशेष-

णम्। शर्म=सुखम्। 'शर्मशातसुखानि च ' इत्यमरः विपुलं शर्मेत्यनेन
 
Mundakopanisad 2.2.10.
 
2.45 चक्राभिधानो हरिः ] Source not known.
 
2.47 प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः ] Vārttika on Astādhyāyī 2.2.36.
 
२१
 
2.48 सप्तम्यां जनेर्ड: ] Astādhyāyī 3.2.97.
 
2.53 धारास्त्राग्रेऽम्बुसंतत्यां सैन्यादेश्च गतिष्वपि ] Vaijayantī 6.2.20.
 
2.57 विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् ] Amara 2.7.29,
 
2.59 शर्मशातसुखानि च ] Amara 1.4.303.
 
2.46
 
2.44 विवृत्ततया EXBC ] वृत्ततया AD 2.45 चक्रपाणेः EYBCD ]om. A
प्रहरणान्तरेभ्यः प्रियत्वेन ABCD ] प्रहरणान्तरेभ्योऽस्य EY 2.47 इति सप्तम्यन्तस्य
परनिपातः E¥‡1 ] इति वक्तव्यम् समास: AB ; इति समासः C; इति वक्तव्यम् समासे
2.50 लिप्ता EXACD ] दीप्ता B 2.52 सैन्यादेश्च E¥C ] सैन्याग्रे च ABD
2.53 साधुजन EVABD ] सुजन C 2.53 संस्थापनार्थाय EXABC ] संस्थापनाय
D 2.54 • विनाशन: EYACD ] विनाशनार्थाय B 2.54 विश्ववन्द्यम् ABCD ] om.
 
D
 
2.55
 
2.59
 
ED¹
 
-
 
2.55 वन्द्यम्=स्तुत्यम् विश्वस्य CEXI ] अभिवन्द्यम् = स्तुत्यं च ABD
परमोप॰ E¥‡C ] परमोपकार ABD
शर्मशातसुखानि च इत्यमरः ABCD ] om. ELi
 
2.56 इत्याशिषि ABD ] आशिषि EXIC