This page has not been fully proofread.

२०
 
त्रिनाभिमति पञ्चारे षण्नेमिन्यक्षयात्मके।
संवत्सरमये कृत्स्नं कालचक्रे प्रतिष्ठितम् ॥
इत्यादिवचनैः, दाशतेयसंहितायामस्यवामीये
त्रिनाभि चक्रमजरमनर्घम्
 
इति, 'सप्त युञ्जन्ति' इत्यादिभिश्च तन्मूलभूतादिभिरित्यर्थः । ध्वान्त-
स्य = तमसः ;
 
=
 
अन्धकारोऽस्त्रियाम् । ध्वान्तं तमिस्रं तिमिरं तमः ।
 
विष्णुपादादिकेशस्तोत्रम् २
 
इत्यमरः। एकान्तम् एकप्रकारम्, अन्तम् =नाशम्; बहिरन्तः सर्व-
देशेषु सर्वकालेषु च प्रतिकूलमित्यर्थः । अपि चेति; न केवलं कालतत्त्वा-
त्मकमेवाहुः, अन्यच्च वक्ष्यमाणमाहुरित्यर्थः । परम् = उत्कृष्टम् । सर्वधाम्नाम्
सर्वेषां तेजसाम्, धाम = आस्पदम्। 'चक्राभिधानो हरिः' इत्यादिभि-
श्चक्रराजस्य विष्ण्वात्मकत्वप्रसिद्धेः, 'येन सूर्यस्तपति तेजसेद्धः'
यदादित्यगतं तेजो जगद् भासयते ऽखिलम् ।
 
यच्चन्द्रमसि यच्चाग्नौ तत् तेजो विद्धि मामकम् ।
 
इत्यादिभिश्च श्रुतिस्मृतिवचनैः । अथवा, सर्वधाम्नामिति निर्धारणे षष्ठी;
समस्तानां तेजसां मध्ये, परमं धाम; उत्कृष्टं तेज इत्यर्थः;
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ।
 
=
 
=
 
2.28 त्रिनाभिमति · प्रतिष्ठितम् ] Visnupurāna_2.8.4.
 
2.30 त्रिनाभि चक्रमजरमनर्घम् ] Rgveda 1.164.2c.
 
2.31 सप्त युञ्जन्ति ] Rgveda 1.164.2a.
 
2.34 अन्धकारोऽस्त्रियां तमः ] Amara 1.8.3.
 
2.37 चक्राभिधानो हरिः ] Source not known.
 
2.38 येन सूर्यस्तपति तेजसेद्धः ] Taittirīyabrāhmaņa 3.12.9.7a.
 
2.40 यदादित्यगतं विद्धि मामकम् ] Bhagavadgītā 15.12.
 
2.43 तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ] Kathopanişad 2.2.15;
 
2.27 त्रिनाभि EYC ] त्रिणाभि ABD 2.30 त्रिनाभि EYC ] त्रिणाभि ABD 2.31 त-
न्मूलभूतादिभिरित्यर्थः EXBC ] तन्मूलादिभिः श्रुतिभिरित्यर्थः AD 2.34 अन्तम् =ना-
शम् EY"'BC ] om. AD 2.35 प्रतिकूल • EXACD ] भावना B 2.35 अपि चेति
ABCD ] अपि च EY 2.38 विष्ण्वात्मकत्व ABCD ] विश्वात्मकत्व Eyv1 2.41
इत्यादिभिश्च E¥ACD ] इति B 2.41 श्रुतिस्मृति ABD ] श्रुति° EYC 2.42 परमं
धाम ABD ] परमम् EXIC
 
30
 
35
 
40