This page has not been fully proofread.

विष्णुपादादिकेशस्तोत्रम् २
 
इति लक्षितः क्षण आदिर्यस्य । सूक्ष्मावयवत्वसामान्यात् क्षणशब्दो लक्षणया
 
10 लवमाह,
 
15
 
नलिनीपत्रसंहत्याः सूक्ष्मसूच्याभिवेधने।
 
दले दले तु यः कालः स कालो लववाचकः॥
 
इति लवस्यैवाद्यावयवत्वेन व्यवहारात् । अखिलम् =समग्रम्; प्रलयाव-
सानमित्यर्थः। 'लवादिः प्रलयान्तश्च' इति सूक्ष्मस्थूलयोराकारयोरागमेषु
परिच्छिन्नत्वात्, लवमारभ्य पराख्यब्रह्मायुरवसानप्रवृत्तप्राकृतलयावसान-
मित्यर्थः। अथवा, क्षण एव कालस्यान्त्योंऽशः; 'यथापकर्षपर्यन्तद्रव्यं
परमाणुः एवमपकर्षपर्यन्तः कालः क्षणः' इति पातञ्जलोक्तेः; कालः
 
2
 
प्रकृतेर्गुणसाम्यस्य निर्विशेषस्य मानवी ।
 
चेष्टा यतः स भगवान् काल इत्युपलक्षितः ॥
 
20 इति श्रीभागवते,
 
१९
 
अथ सूक्ष्मा परा शक्तिः कालात्मनि महात्मनि ।
तस्मान्निष्क्रम्य संक्रान्ता विप्रुङग्नेरिवायसी ॥
 
इति श्रीवायवीये लक्षितं चिरमिति प्रत्ययात् साधारणकारणम्, अनाद्य-
न्तव्यापकं तत्त्वविशेषः । एतमिति सर्वलोकप्रसिद्धत्वाभिनयः; तिथिवारन-
25 क्षत्रादिरूपेणाबालगोपालं प्रसिद्धममुमित्यर्थः । सूरयः = पराशरबादराय-
णप्रभृतयः सर्वज्ञाः। आहुः =कथयन्ति;
 
2.12 नलिनीपत्रसंहत्याः लववाचकः ] Quoted in Yājñavalkyopanişadbhāsya 47.
2.14 लवादिः प्रलयान्तश्च ] Source not known.
 
2.17 यथापकर्ष ० कालः क्षण: ] Vyāsabhasya on Yogasūtra 3.22.
2.19 प्रकृतेर्गुणसाम्यस्य इत्युपलक्षितः ] Bhāgavatapurāna 3.16.17.
2.22 अथ विप्रुडग्नेरिवायसी ] Vāyavīyasamhitā of the Śivapurāņa I.7.8,
 
2.11 सूक्ष्म ABCD ] कृते EV 1
ABCD ] परार्ध EY
 
C
 
2.12 वाचकः ABCD ] उच्यते EY 2.15 पराख्य
2.17 काल: क्षण इति पातञ्जलोक्ते:; काल: conj.] काल:
(eyeskip) E¥"1; काल इति पातञ्जलोक्तेः कालम् ABD; कालः क्षण इति पातञ्जलोक्तेः
2.18 मानवी ABD ] मानव EYC 2.20 · भागवते EYBCD ] भागवतोक्तेः A
2.21 महात्मनि EYBC ] परात्मनि AD 2.22 तस्मान्निष्क्रम्य ABCD ] अस्मान्निष्क्रम्य
EY 1 2.23 श्रीवायवीये EYBC ] श्रीवायवीये च AD 2.23 चिरमिति EYBC ] चि-
रादिति AD 2.24 अनाद्यन्त° ABD ] अनाद्यनन्तम EYC 2.25 प्रसिद्धममु ABD ]
प्रसिद्धतम EY.C