2023-09-10 12:46:12 by ambuda-bot
This page has not been fully proofread.
विष्णुपादादिकेशस्तोत्रम् २
लोकानुग्रहाच्च नीरदौघध्वनिपरिभवदत्वमिति भावः । कम्बुराजः = शङ्ख-
जातेरेव सार्वभौमः; 'राजाहः सखिभ्यष्टच् ।' इति टच् । भगवत्करकम-
लसततसांनिध्यस्य जगदनुग्रहपरत्वस्य च निरतिशयसुकृतकार्यस्य शङ्खा-
न्तरेष्वसंभवादिति भावः । 'त्रयी तु कम्बुः शङ्खो ऽस्त्री' इति वैजयन्ती ।
अत्र पूर्वार्ध उपमालङ्कारः, लक्ष्मीभर्तृभुजाग्रकम्बुराजानां नीलाद्रितुङ्गशृङ्ग- 135
रजनीनाथबिम्बानां च बिम्बप्रतिबिम्बभावेन निर्देशात् । उपमया भगवतो
नीलस्निग्धप्रभत्वादि, भुजस्य वृत्तोत्तुङ्गस्थिरत्वादि, कम्बुराजस्य प्रसन्नध-
वलवृत्तत्वादि च प्रतीयते । उत्तरार्धे व्यतिरेकोऽधिकश्चालंकार:; नीरदौघा-
दस्यातिशयप्रतिपादनात आश्रयादम्बरत आश्रितानां निध्वानानामाधि-
क्यकथनाच्चेति मन्तव्यम्।
१८
"
इत्थं वागर्थप्रतिपत्तये शब्दब्रह्मात्मकं शङ्खराजमुपास्य, इदानीं सर्वतो र-
क्षासिद्धये भगवदायुधानां प्रधानं चक्रराजमुपासितुमुपक्रमते-
आहुर्यस्य स्वरूपं क्षणमुखमखिलं सूरयः कालमेतं
ध्वान्तस्यैकान्तमन्तं यदपि च परमं सर्वधाम्नां च धाम ।
चक्रं तच्चक्रपाणेर्दितिजतनुगलद्रक्तधाराक्तधारं
शश्वन्नो विश्ववन्द्यं वितरतु विपुलं शर्म घर्मांशुशोभम् ॥ २॥
=
स्वरूपम्। स्वम् =अनारोपितम्, रूपम् = विग्रहम्; आयुधत्वादीनां जग-
दनुग्रहायारोपितत्वात् । क्षणमुखम् =
अष्टादशनिमेषास्तु काष्ठा त्रिंशत् तु ताः कलाः ।
तास्तु त्रिंशत् क्षणस्ते तु मुहूर्तो द्वादशास्त्रियाम् ॥
1.132 राजाहः सखिभ्यष्टच् ] Astādhyāyī 5.4.91.
1.134 त्रयी तु कम्बुः शङ्खोऽस्त्री ] Vaijayantī 4.1.55.
2.8 अष्टादश द्वादशास्त्रियाम् ] Amara 1.4.272,
-
1.133 कार्यस्य EXBCD ] कार्य A
• तुङ्ग · EYL ACD ] तुङ्गत्व B 1.137
EYBCD ] जनानु A 2.7 निमेषास्तु
०
v1
1.135 उपमा० EYABD ] दृष्टान्तो C 1.135
• प्रभ° ABCD ] प्रभु (?) ED 2.6 जगदनु°
EVBC ] निमेषाः स्यु: AD
140
5