2023-09-10 16:37:11 by jayusudindra
This page has been fully proofread once and needs a second look.
स्युः पुमांसः पञ्चजना: पूरुषाः पुरुषा नरः ।
,
इत्यमरः । तेषां हितः, अनिष्टनिवारणात् । पञ्चजनो नाम शङ्खरूपी समुद्रा-
न्तश्चरः कश्चिदसुरः; तद्वधेन गृहीतः, तदस्थिसंभवत्वाद् वा पाञ्चजन्यः।
115
हितार्थे भवार्थे वा तद्धितः । सः यस्येति यच्छब्देन यः परामृष्टः स
तादृश इत्यर्थः । दितिसुतकुलत्रासनैः; दाक्षायण्याः कश्यपदाराणां दितेः,
सुताः =पुत्राः, हिरण्यकशिपुप्रभृतयः ; तेषां कुलस्य=सन्तानस्य; वि-
रोचनबलिबाणादीनामित्यर्थः ; त्रासनैः=भयकम्पसंपादकैः । प्रह्लादस्यापि
तत्कुल्यत्वेऽपि प्रायिकत्वात् त्रासनत्वोक्तिः । अथवा, तस्यापि भगवतैवा-
प्रमादाय विनेयत्वात् ; 'भीषास्माद् वातः पवते । भीषोदेति सूर्यः । भी-
षास्मादग्निश्चेन्द्रश्च। मृत्युर्धावति पञ्चम इति । इति श्रुतेः, देवानामपि
भगवता त्रास्यत्वम्; किं पुनरसुराणामिति द्योत्यते । 'कृत्यलुटो बहुलम्'
इति कर्तरि ल्युट् । पूरयन् निर्विवरं कुर्वन्। स्वैः, हरिमुखपवनपूरणस्य
कादाचित्कत्वात्, मन्दमारुतापूरणजनितैरात्मीयैः । निध्वानैः =घोषैः
मन्दानिलापूरकृतं दधानो
निध्वानमश्रूयत पाञ्चजन्यः ।
120
125
=
इति माघोक्तेः । नीरदौघध्वनिपरिभवदैः = मेघपरम्पराया गर्जितानाम्,
परिभवम् =गर्वभङ्गम्, दातुं शीलं येषां तैः ; नीरदैर्निजध्वनिभिरम्बरैकदे-
शस्यापि पूरयितुमशक्यत्वाद्, दितिसुतकुलत्रासनस्याप्यकरणाद्, अनेनै-
130
केनापि स्वनिध्वानैः सकलस्याप्यम्बरस्य पूरणाद्, दितिसुतकुलत्रासनेन
1.112 स्युः पुमांसः पञ्चजनाः पूरुषाः पुरुषा नरः ] Amara 2.5.530.
1.121 भीषास्माद् इति ] Taittirīyopanisad 2.8.
1.122 कृत्यलुटो बहुलम् ] Astādhyāyī 3.3.113.
1.126 मन्दानिला पाञ्चजन्यः] śiśupālavadha 3.20.
...
D
१७
。
1.111 संग्रहः E¥॰±ACD ] संप्रवृत्तम् B 1.112 नरः ABD ] जना: C 1.113 इत्यमरः ।
E¥BCD ] सिंहः । A 1.114 वा पाञ्च EXABD ] पाञ्च C 1.123 कर्तरि ल्युट्
EYABD ] ल्युट् C 1.123 स्वैः EY॰BC ] om. AD 1.128 ॰भङ्गम् EXABC ] om.
1.128 बहुभिरपि निजध्वनिभिरम्बरैक CD ] ॰बहुभिरप्यम्बरैक° (eyeskip) E¥*1A;
बहुभिर्निजध्वनिभिरप्यम्बरैक B 1.129 पूरयितुमशक्यत्वाद् ABCD ] पूरणस्याशक्यत्वाद्
ED1 1.129 ॰ प्यकरणात् EXABD ] पकरणात् C 1.130 स्वनिध्वानै: EYCD ]
ध्वनिध्वानैः AB