This page has not been fully proofread.

विष्णुपादादिकेशस्तोत्रम् १
 
निरूपयत्वायुष्मान् । नवमेघश्यामस्य दामोदरस्य भुजाग्र इति तत्प्रभानि-
कुरुम्बकरम्बितत्वद्योतनादत्रापि कलङ्कप्रतिवस्तुकालिमानुबन्धः कविवादि- 90
सहृदयशिरोमणिभिराचार्यैः प्रकाशित एव । विभाति, न तु श्रूयते इत्यनेन
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ॥
 
इति.
 
न तु मां शक्ष्यसे द्रष्टुमनेनैव स्वचक्षुषा।
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम्॥
इति,
 
१६
 
तदीक्षणाय स्वाध्यायश्चक्षुर्योगस्तथापरम् ।
न मांसचक्षुषा द्रष्टुं ब्रह्मभूतः स शक्यते ॥
इत्यादिवचनैर्भक्तिज्ञानयोगात्मकदिव्यचक्षुर्गोचरतया भगवद्विग्रहस्य, स्वस्य
च गुरुप्रसादादुक्तलक्षणदिव्यचक्षुःसंपन्नतया तत्त्वतस्तस्यानुभूतत्वं व्यज्यते ।
विभाति, न तु विभातमिति वर्तमाननिर्देशात् 'भवतामपि भक्त्यादिनिष्ठत्वे
तथा प्रकाशत एव । अतो ऽस्मिन्नर्थे निस्तन्द्रैः प्रयतितव्यं भवद्भिः ।' इति
श्रोत्रादीन् प्रत्युपदेशः क्रियते । विभाति, न तु दृश्यत इति स्वतो धवलस्या-
स्य हरिभुजप्रभानीलिम्ना परभागलाभाद् विशेषदृश्यत्वं नैसर्गिकश्वैत्यस्यापि 105
शशिबिम्बस्य यथा
 
लक्ष्म लक्ष्मीं तनोति ।
 
किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥
 
--
 
इति न्यायादिति द्योत्यते । पायात् = रक्षतु, इति आशिषि प्रार्थने वा
लिङ्; 'पा रक्षणे' इति धातुः । नः = अस्मानिति, स्वस्य स्वमतानुसारेण
 
1.93 भक्त्या त्वनन्यया परंतप ] Bhagavadgītā 11.54.
 
1.96 न तु मां योगमैश्वरम्] Bhagavadgītā 11.08.
 
1.99 तदीक्षणाय
 
स शक्यते ] Visnupurāna 6.6.3.
 
1.108 लक्ष्म लक्ष्मीं तनोति । नाकृतीनाम् ] Abhijñānaśākuntala 1.18.
 
...
 
95
 
1.89
 
;
 
॰ श्यामस्य EYBC ] श्यामलस्य AD 1.91 · शिरो॰ ELC ] शिखा ABD
1.91 विभाति EXYBC ]om. AD 1.95 शक्ष्यसे EYBCD ] शक्ष्यते NVP शक्यस्ये
A 1.105 धवलस्यास्य EXABD ] धवलस्य C
C 1.106 यथा EY''BC ] अपि A; अपि यथा D
 
1.105 • प्रभा• EXABD ] प्रभाव
 
100
 
110