This page has been fully proofread once and needs a second look.

विष्णुपादादिकेशस्तोत्रम् १
 
45
 
'लक्ष्मीभर्तुः' इत्युक्त्यैव विशेष्यस्य विष्णोरञ्जसा प्रतीते: अनुपचरितस्य

च लक्ष्मीधारणस्य भगवत्येव संभवाद् विशेषणमेव प्रयुक्तमिति वेदितव्यम् ।

भर्तुरिति योगरूढ्या<flag></flag> पाणिग्राहकत्वं प्रतिपादयन्, पतिव्रतायास्तस्यास्तद्भू-
40

क्षेपवशवर्तित्वं च द्योतयति; लक्ष्मीभर्तुः, न तु लक्ष्म्या भर्तुरिति समासे

गुणीभावेन तस्याः प्रतिपादनादप्ययमर्थो व्यज्यते ।
 

भुजाग्रे बाहुशिखरे बाहा बाहुर्भुजे न षट् ।
 

इति स्कन्धादधः कूर्परादूर्ध्वं च यः प्रदेशः, तस्य भुजसंज्ञा यद्यप्यभिधान-

शास्त्रे पठिता, तथाप्यत्र स्कन्धादिः करान्तः समुदाय उच्यते।

तदेतदाजानुविलम्बिना ते ज्याघातरेखास्थिरलाञ्छनेन ।

भुजेन रक्षापरिघेण भूमेः
 

इति,
 

अस्पृष्टखड्गत्सरुणापि चासीद्

रक्षावती तस्य भुजेन भूमिः ।
 
१३
 

 
50

इति,
 

पततु शिरस्यकाण्डयमदण्ड इवैष भुजः।

इत्यादिप्रयोगदर्शनात् । अग्रशब्देनात्र करतलमुच्यते, स्थितिकर्तुर्भगवत-

स्त्रिभुवनपालने प्रधानसाधनत्वात् प्रथमं भुजग्रहणम्, ततो जातत्वाद्धि

क्षत्रवर्णस्य प्रजापालनेऽधिकारः; यद्धि यस्य प्रधानसाधकतमम्, तस्य
 
1.42 भुजाग्रे बाहुशिखरे बाहा बाहुर्भुजे न षट् ] Source not known.
1.46 तदेतदाजानुविलम्बिना भूमेः ] Raghuvamśa 16.84.
1.49 अस्पृष्ट भुजेन भूमिः ] Raghuvamsa 18.48.
 
1.51 पततु शिरस्यकाण्डयमदण्ड इवैष भुज: ] Mālatīmādhava 5.31.
 
1.37 विशेष्यस्य ..संभवाद् EVABD ] om. C 1.38 चरितस्य च EYB ] चरितस्य
AD 1.38 लक्ष्मीधारणस्य EYA ] लक्ष्मीधारणस्य च B; om. D 1.38 °वेदितव्यम् ।
ABCD ] अवगन्तव्यम् । EX 1.39 भर्तुरिति EDIABD ] भर्तुरिति च C
हकत्वं E¥‡1 ] ग्रहणत्वं ACD; ग्राहत्वं B 1.40 ● क्षेप ० EXI ACD ] क्षेपण B
॰वर्तित्वं E¥॰LA ] वर्तिनीत्वं BCD 1.40 च द्योतयति EVCD ] द्योतयति AB
न तु EYABC ] न D
भर्तुरिति EL"ABD ] लक्ष्मीभर्तुरिति (eyeskip)
C 1.42 बाहुर्भुजे न षट् AD ] बाहुर्भुजा EV1; बाहुर्भुजो न षट् B; बाहुर्भुजा न
षण् C
1.53 साधनत्वात् EYBCD ] साधनकत्वात् A 1.53 जातत्वाद्धि EVACD ]
जातत्वादि B 1.54 यद्धि यस्य EXBCD ] यस्य यद्धि A 1.54 °प्रधान॰ E¥C ]
• प्रधानं ABD
 
1.39 ग्रा-
1.40
1.40
 
1.40 लक्ष्मी