2023-09-10 16:12:42 by jayusudindra
This page has been fully proofread once and needs a second look.
विष्णुपादादिकेशस्तोत्रम् १
इत्याद्याचार्यवचनाद्, रुच्यर्थित्वव्युत्पत्तयश्चात्र मूलम् । तथा चाहुः
यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते ।
आभासो व्यर्थ एकस्मिन्ननुसन्धानसाधितः।
इति। व्युत्पाद्यभेदापेक्षया हि शास्त्राणि विचित्राणि विस्तीर्यन्ते। अन्यथा
परिमिताक्षरोपदेश्येन तत्त्वेन सर्वेषां चरितार्थत्वात् किमर्थ एष विविधवि-
कल्पजल्पकल्पनाजटिलो ग्रन्थस्कन्धातिभारनिबन्ध: ? एकेनैव मन्त्रेणाभि-
मतसकलार्थसिद्धौ किंप्रयोजना चेयं बहुविधमन्त्रतन्त्रपारतन्त्र्ययन्त्रणा? इ-
त्यलमतत्त्वरसभावालंकारतरङ्गितभङ्गिप्रतिपादनेन । सरसतामापाद्य, मृदु-
लसरलमतीनामतिगहनेऽस्मिन्नर्थेऽवतरणार्थं सार्थक एव परानुग्रहैकसकल-
व्यापाराणामपारज्ञानपारावाराणां भगवतामाचार्याणामयमारम्भ इति स्थि-
तम्। प्रकृतमनुसरामः । जलदवर्णवर्णनपरेण प्रबन्धेनैव प्रयुक्तेऽपि मङ्गले,
अभ्युच्चयार्थं मङ्गलोपक्रमाणि मङ्गलमध्यानि मङ्गलान्तानि च काव्यादीनि
कर्तुः श्रोत्रादीनां चैहिकामुष्मिकफलप्रसावकानि च भवन्तीति द्योतयितुं म
ङ्गलदेवतायाः कमलवासिन्याः प्रधाननाम्ना लक्ष्मीशब्देनोपक्रममाणः, त
त्प्राणेश्वरस्य मुकुन्दस्य भुक्तिमुक्तिप्रदत्वं भक्तेभ्यः प्रकाशयति कविः । लक्ष्म्याः
भर्ता; 'डु भृञ् धारणपोषणयोः' इति धात्वर्थाश्रयणात्, सदा तदधिदेव-
तारूपामुरसा धारयति, भक्तेषु धनधान्यादिरूपेण ज्ञानरूपेण च पोषयति च
यः, तस्येत्यर्थः। 'विशेषणमात्रप्रयोगो विशेष्यप्रतिपत्तौ इति लक्षणात्,
·"
1.18 रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषाम् ] Mahimnahstotra 7.
1.21 यथारुचि ॰सन्धानसाधितः ] īśvarapratyabhijñākārika 2.3.3.
1.36 विशेषणमात्रप्रयोगो विशेष्यप्रतिपत्तौ ] Kāvyālankārasūtravrtti 5.1.10.
1.24 ●भार•
1.25 मन्त्रेणाभिमत
° निबन्ध: EVACD ] निर्बन्ध: B
1.25 • सिद्धौ EXC] सिद्धे: ABD
1.27 °ग्रहैक° EYBC ] ग्रहैकफल AD
1.29 • जलदवर्ण • EYABD ] जलद C 1.29 ॰ प्रबन्धेनैव
1.27 तरणार्थं
1.22 अन्यथा EVCD ] अथा AB 1.23 चरितार्थत्वात् EVIC] चरितार्थत्वे AD;
च चरितार्थत्वात् B 1.23 किमर्थ एष EXACD ] किमर्थमेष B
EXABD ] पाठ C 1.24
E¥॰1ABD ] मन्त्रेणामत C
EV"1ABD ] तारणार्थं C
ABCD ] मारम्भ EY
EY॰ABD ] बन्धेनैव C 1.31 ° फल • ABCD ]om. ED 1.33 भुक्ति EYBD ] भक्ति
AC 1.34 डु भृञ् E¥C ] भृ ABD
EV¹B 1.35 ज्ञानरूपेण E¥v1AD ] om. BC
1.28 ॰मयमारम्भ
1
1.34 धात्वर्थाश्रयणात् ACD ] धात्वर्थश्रवणात्
20
O
35