This page has been fully proofread once and needs a second look.

१०
 
ङ्गतो व्युत्पिपादयिषुः प्रारिप्सितग्रन्थस्याविघ्नपरिसमाप्त्यादिप्रयोजनसिद्धये
 
विष्णुपादादिकेशस्तोत्रम् १
 

निखिलदनुजनिशिचरकुलमुखदुरितभरनिरसनेन भुवनपालनजागरूकाणाम-

चिन्त्यमहिम्नां भगवतो दिव्यायुधानामन्येषां च तदन्तरङ्गभूतानां परिवा- 50

रविशेषाणां स्तुत्या प्रथमतः प्रसादोन्मुखत्वमापादयति तत्प्रसादमन्तरेण

निरन्तरायनिराकुलेन मनसा भगवद्विग्रहस्य प्रवेष्टुमशक्यत्वात् । न खलु

प्रतिहारादिपरिवारावर्जनमन्तरेण नरपतिसेवायाः सौकर्यम् । तत्रापि,
 
"
 

भूतादिमिन्द्रियादिं च द्विधाहंकारमीश्वरः ।

बिभर्ति शङ्खरूपेण शार्ङ्गरूपेण च स्थितम् ।
 

इति,
भूतादिस्तु विकुर्वाणः शब्दतन्मात्रकं ततः ।
 

इति,
शङ्खप्रान्तेन गोविन्दस्तं पस्पर्श कृताञ्जलिम् ।

इत्यादिविशिष्टार्थप्रतिपत्त्यर्थविवेचनैः समग्रज्ञानप्रकाशकस्य शब्दब्रह्मात्मक-

स्य शङ्खराजस्य प्रथमं वर्णनेनावर्जनं विशिष्टार्थप्रतिपत्त्यर्थं करोति
 
इति,
 
इति,
 

लक्ष्मीभर्तुर्भुजाग्रे कृतवसति सितं यस्य रूपं विशालं

नीलाद्रेस्तुङ्गशृङ्गस्थितमिव रजनीनाथबिम्बं विभाति ।
 
0.55 भूतादि च स्थितम् ] Visnupurāna 1.22.70.
 
0.57 भूतादिस्तु विकुर्वाण: शब्दतन्मात्रकं ततः ] Visnupurāna 1.2.37.
0.59 शङ्खप्रान्तेन गोविन्दस्तं पस्पर्श कृताञ्जलिम् ] Visnupurāņa 1.12.49.
 
प्रसाद C
 
0.48 व्युत्पिपादयिषुः EXABD ] व्युपादयिष्ट: C 0.48 प्रारिप्सित• EXBD ] प्रारि-
प्सितस्य AC 0.48 विघ्न EXACD ] विघ्लेन B 0.48 • सिद्धये EYLABD ] विग्रहे C
0.50 चन्तरङ्ग ABCD ] च तदन्तरङ्ग० E¥ 0.51 परिवार • EXABD ] परिवारण C
0.51 प्रसादोन्मुखत्वमापादयति तत्प्रसाद° EXABD ] प्रसादोन्मुखस्य समाधातयसित-
0.52 निरन्तराय° ABCD ] निरन्तर EYu1 0.52 मनसा EDABD ] सा C
0.53 ° परिवारावर्जन EXC] परिवारजन AD; परिवारापवर्जन B 0.53 सौकर्यम्
E¥॰ABD ] सौकुमार्यम् C 0.55 शार्ङ्गरूपेण च EY ABD ] om. C 0.59 प्रान्तेन
EXACD ] प्रान्ते च B 0.60 विशिष्टार्थप्रतिपत्त्यर्थविवेचनैः EL॰1 ] ---वचनैः ABD;
वचनेन C 0.61 विशिष्टार्थ • EYB ] विशिष्टशब्दार्थ ACD 0.61 करोति EVABD ]
करोति लक्ष्मीभर्तुर्भुजाग्र इत्यादि C
 
"
 
55
 
60