This page has been fully proofread once and needs a second look.

5
 
10
 
॥ भक्तिमन्दाकिनीसहितम् ॥
 

 
॥ विष्णुपादादिकेशस्तोत्रम्॥
 

 
जात्याख्यागुणकर्मवर्जिततया निर्णीतमप्यागमै-

र्जात्या यं पशुपालमाप्तवचसः कृष्णं गृणन्त्याख्यया ।

श्रीशं ज्ञानिनमीश्वरं सुयशसं वीरं विरक्तं गुणै-

स्त्रातारं जगतां च कर्मभिरहो देवाय तस्मै नमः ॥ १ ॥

 
श्रीमच्छंकरपूज्यपादरचितं पादादिकेशावधि-

स्तोत्रं दात्रमघस्य नेत्रममलं गात्रं हरेः प्रेक्षितुम् ।

व्याचिख्यासति मय्यहो सति सतामेषा विधा हासितुं

व्यक्ता भक्तिरथापि विष्णुपदयोः पुष्णाति मे धृष्णुताम्॥२॥
 

 
तत्र तावत् 'आत्मा वा अरे द्रष्टव्यः' इति स्वविहितस्यात्मदर्शनस्य सा-

धनतया श्रुत्या 'श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इति प्रतिपादितानां

श्रवणमनननिदिध्यासनानां मध्ये, यमादिषडङ्गनिष्पाद्यस्य परमेश्वरैक्यानु-

भवरूपसमाधिमातुर्निदिध्यासनस्य प्राधान्यम्,
 
0.9 आत्मा वा अरे द्रष्टव्यः ] Brhadaranyakopanisad 2.4.5.
 
0.10 श्रोतव्यो मन्तव्यो निदिध्यासितव्यः ] Brhadāranyakopanisad 2.4.5.
 
-
 
0.9 स्वविहित •
 
0.7 हासितुं EV॰B ] हासति ACD 0.8 व्यक्ता E¥‡C ] व्यक्तम् ABD
E¥ABC ] विहित D 0.10 साधनतया EXABC ] व्याधनतया D 0.11 • निदि-
ध्यासनानां EYAD ] निदिध्यासानां B; निदिध्यासिनां C 0.12 °भवरूप° CD ] रूप
A; भवा B; भव EYL 1