This page has been fully proofread once and needs a second look.

विष्णुपादादिकेशस्तोत्रम् ५२
 
शरीरस्य तत्परिग्रहस्य च कर्मफलभोगाद्यर्थत्वात् भोगेन प्रारब्धे कर्मणि
30

क्षीणे तच्छरीरं पुनः प्रकृतिभूतभूतपञ्चके लीयते इति पञ्चता = मृतिः ।

वियति वियद् मरुति मरुद् वह्नौ वह्निर्जलं जले भुवि भूः ।

लीयन्ते स्वप्रकृतावहमपि मय्येव
…….।
इत्याद्यभियुक्तोक्तेः । तां पञ्चताम् एत्येति

लशुनं गृञ्जनं चैव भुक्त्वा चान्द्रायणं चरेत् ।
 

 

इत्यत्र यथा प्रमादात् भुक्तं चेत् तदानीमियन्निष्कृतिरित्यनुवादोऽर्थः, न पु-

नरवश्यं भुक्त्वा पश्चाच्चान्द्रायणं चरेदिति 'स्नात्वा भुञ्जीत' इत्यादिवद्विधिः ।

अतश्च मार्कण्डेयादिवत् परमेश्वरोपासकानामाप्रलयमवस्थितेः,
 
35
 
...
 
=
 
...
 

प्रभुरहमन्यनृणां न वैष्णवानाम्
 

 

इति वचनात् न प्राकृतजनवत् पारतन्त्र्येण मृतिः । अपि तु संसारवैराग्यात्
40

परानुग्रहादिना वा
 
"
 

कृतकृत्याः प्रतीक्षन्ते मृत्युं प्रियमिवातिथिम् ।
 
-
 

इत्युक्तत्वात् शरभङ्गदधीचादिवत् स्वेच्छोत्क्रमणादिभिः शरीरं त्यजन्ति चे-

दित्यर्थः। भानोः =सूर्यस्य, बिम्बान्तर्गोचरम् =मण्डलान्तवर्ति, परमान-

न्दम्
=
सर्वस्मादुत्कृष्टं सुखम् , इतः परस्य सुखस्याभावात् । मानुषमानन्द-
१६७
 
52.32 वियति वियद् मय्येव ] Source not known.
 
52.34 लशुनं गृञ्जनं चैव भुक्त्वा चान्द्रायणं चरेत् ] Yājñavalkyasmrti 1.126.
 
52.36 स्नात्वा भुञ्जीत ] Source not known.
 
52.38 प्रभुरहमन्यनृणां न वैष्णवानाम् ] Visnupurāņa 3.7.14.
 
52.41 कृतकृत्याः प्रतीक्षन्ते मृत्युं प्रियमिवातिथिम् ]
in appendix).
 
-
 
Mahābhārata 14.4.1489 (variant
 
52.29 शरीरस्य EYBC ] शरीरत्वस्य A 52.29 · भोगाद्यर्थत्वात् EXC ] भागार्थ-
त्वात् A; भोगार्थत्वात् B
E¥BC ] प्रकृतिभूते A
 
52.32
52.34
 
52.29 भोगेन EYBC ] भोगेन च A 52.30 प्रकृतिभूत
52.31 वह्निर्जलं जले EX BC ] वह्निर्जले जलं A
मय्येव E¥''C ] मय्येव लीयेद्य A; मय्येव यते B 52.33 तां EYAC ] om. B
गृञ्जनं E¥"'BC ] कृञ्जनं A 52.35 चेत् EYLAC ] तत् B 52.36 भुक्त्वा ABC ] कृत्वा
EVI 52.36 स्नात्वा EYLAC ] स्नातुम् B 52.39 °जन AB ] om. EXC
प्रतीक्षन्ते E¥'±AB ] प्रतीक्ष्यन्ते C 52.42 इत्युक्तत्वात् EKAC ] इत्युक्त्वात् B
दधीचादिवत् EXAC ] दधीचादिव B 52.43 चेदित्यर्थ: ABC ] चेत्यर्थः EY 1
बिम्बान्तर्गोचरम् E¥C ] बिम्बमध्यगोचरम् A
 
52.41
52.42
 
52.43