This page has been fully proofread once and needs a second look.

विष्णुपादादिकेशस्तोत्रम् ५२
 
=
 
=
 
र्णनपरत्वात् पादादिकेशान्तसंज्ञितं स्तोत्रम्; अन्तशब्दः प्रसिद्ध्या नोपात्तः।

कीर्तयित्वा = उच्चार्येति वागिन्द्रियप्रावण्यमुक्तम् । त्रिधाम्नः = भगवतः ।

पादाब्जद्वन्द्वसेवासमयनतमतिः ; श्रीमदष्टाक्षरादिभिर्मन्त्रमुख्यैर्या पादकम-

लद्वयस्य_सेवा =उपासनम्, तत्काले नता = प्रवणा, तत्रैकाग्रीभूता म

तिः = बुद्धिर्यस्य । अनेनान्तःकरणस्थैर्यं प्रकाशितम् । मस्तकेन = शिरसा। 15

आनमेत् = त्रिधामानं पादाब्जद्वन्द्वं वार्थात् प्रणमेत; पूजावसान इत्यौ-

चित्यात्। अनेन शरीरप्रावण्यं दर्शितम् । मनोवाक्कायानां समं प्रह्लीवीभावे

परमेश्वरस्य सर्वथा करुणाकटाक्षः पतिष्यतीति भावः । कीर्तयित्वेत्यवी-

प्सया सकृदुच्चारणस्यायं प्रभावः, क्रियासमभिहारस्य तु कथं कथ्यतामि-

ति व्यञ्जयति। आनमेदिति संभावनायां लिङ् । मनुष्याणां सहस्रेषु हि

स पुण्यात्मा संभवतीति द्योतयति । आत्मनेति विभक्तिप्रतिरूपकमव्ययम्।

'आत्मानमात्मना वेत्सि' इत्यादिवत् । स्वयमित्यर्थः । अनेन स्वपरप-

रित्राणे तस्य परानिरपेक्षत्वमुक्तम् । एनोनिचयकवचकम् = बहुजन्मस-

मार्जितपापपुण्यरूपं कुत्सितं कञ्चुकम्, सर्वत आवारकत्वात् मलिनत्वात्

पारतन्त्र्यकरणत्वाच्च कवचत्वारोपः । कुत्सायां कप् । उन्मुच्य सर्पस्त्वच - 25

मिवावधूयेत्यनेन दारिद्र्यव्याधिशत्रुपीडाद्यनर्थानामेनोनिचयकार्यत्वात् तस्य

च निवृत्तत्वात् समग्रसंपदारोग्यरिपुजयाद्यैहिकसुखानुभूत्या दीर्घस्यायुषः

प्रतिपत्तिः, तत्त्वज्ञानप्राप्तिश्च प्रकाशिता । पञ्चताम्; पञ्चभूतसमष्टिरूपत्वात्
 
52.22 आत्मानमात्मना वेत्सि ] Kumārasambhava 2.10.
 
१६६
 
52.12 प्रावण्यमुक्तम् EYBC ] प्रावण्यमुखम् A
A 52.14 कमलद्वयस्य EYBC ] कमलस्य A
 
=
 
52.12 भगवतः । EYBC ] om.
52.14 तत्काले EYBC ] काले A
 
52.14 तत्रैकाग्रीभूता
 
52.14 नता EVAC ] न B 52.14 प्रवणा EDAC ] प्रवणता B
 
52.16 वार्थात् EXAC ] प्रार्थवार्थात् B
 
52.17 समं AB ] सम EYC 52.18
 
मति: AB ] om. EVIC
ABC ] पूजासाधन EY
कटाक्षा: A 52.19 तु कथं EVBC ] कथं A 52.20 व्यञ्जयति EYAC ] om. B
52.20 सहस्रेषु EXAC ] सहस्रे B 52.21 हि स EYBC ] स A 52.21 प्रति-
रूपकमव्ययम् EV"AC] प्रतिरूपकम् B 52.22 स्वपर A] स्वरूप EDC; स्वर B
52.23 पर° A ] परम EXC; परि B 52.23 • निचय • EXBC ] निवचय A
कुत्सितं AB ] om. एट्ट 52.25 कप् EYAC ] कन् B 52.26 ° कार्यत्वात् EYAC ]
कार्यकत्वात् B 52.27 ° संपदा • EVAC ] संपदाद्यै B
 
52.24
 
52.16 पूजावसान
कटाक्ष: EYBC ]
 
20