This page has not been fully proofread.

विष्णुपादादिकेशस्तोत्रम् ५०
 
इत्याचार्यवचनात् प्रमाणाद् । हेयातिशयत्वं हि परप्रकाश्यत्वम्, तच्च ब्रह्म-
णि नास्तीति भावः ।
 
अतीतः पन्थानं तव च महिमा वाङ्मनसयो
रतयावृत्त्या यं चकितमभिधत्ते श्रुतिरपि ।
 
इति भट्टाचार्यैरप्ययमर्थः प्रतिपादितः । वाङ्मनसागोचरत्वं साधितं चेत्,
तर्हि प्रमाणशून्यत्वात् तुरगशृङ्गादिवत् निरुपाख्यत्वं प्रसक्तमित्यत्राह
स्वसंविदिति; स्वप्रकाशम् ; अवेद्यत्वे सति, अपरोक्षव्यवहारयोग्यमित्य-
र्थः, 'अत्रायं पुरुषः स्वयंज्योतिः ।' 'आत्मनैवायं ज्योतिषास्ते' इत्या-
75 दिश्रुतिभ्यः । अतः स्वानुभवसिद्धे वस्तुनि कः खल्वनुन्मत्तस्तुच्छत्वाशङ्का-
तङ्कपङ्कमङ्करयति । न हि नाहमस्मीति कश्चित् प्रत्येति । सुषुप्ते ऽपि न
किंचिदवेदिषम्' इति वेद्यस्यैव निषेधो न वेदितुः । 'यानुभूतिरजामेया'
'स्वानुभूत्यैकमानया' इत्याद्याचार्यवचनात् । तथा चाहुरभियुक्ताः
यत्सिद्ध्या लब्धसिद्धिः स्यात् स्वानुसंधिविडम्बना ।
 
6
 
70
 
80
 
तत्कृते मीलिताक्षेभ्यो महद्भ्यः क्रियते नमः॥
 
इति । स्वयं विदिति स्वयं ज्ञानस्वरूपमित्यपि, ज्ञानादिगुणत्वोक्तिनिरस-
50.70 अतीतः श्रुतिरपि ] Mahimnahstotra 2.
 
50.74 अत्रायं पुरुषः स्वयंज्योतिः ] Brhadāranyakopanişad 4.3.9.
50.74 आत्मनैवायं ज्योतिषास्ते ] Brhadāranyakopanisad 4.3.6.
 
50.77 यानुभूतिरजामेया ] Source not known.
 
50.78 स्वानुभूत्यैकमानया ] Source not known.
 
50.80 यत्सिद्ध्या क्रियते नमः ] Source not known.
 
१५७
 
...
 
50.67 हि पर EVAC ] पर B 50.67 परप्रकाश्यत्वं तच्च EXC ] om. A; परप्रका-
50.73
50.76
 
श्यत्वं च तच्च B 50.71 वाङ्मनसागोचरत्वं EXC] वाङ्मनसगोचरत्वं A; वाङ्मनसो
गोचरं B 50.71 साधितं EYAC ] B 50.71 चेत् E¥±AC ] चा B 50.72 प्रमाण
EYAC ] प्रामाण्य B 50.72 तुरंग° ELC] तुरङ्ग A; तरङ्ग B 50.72 निरुपाख्यत्वं
EX॰AC ] निरूप्याख्यत्वं B 50.72 प्रसक्तमित्यत्राह EYBC ] प्रसक्तमित्यह A
• योग्य • EYLAC ] योग्यत्व B 50.75 स्वानुभवसिद्धे EYBC ] स्वानुभवे A
नाहमस्मीति EYBC ] नाममस्मीति A 50.76 कश्चित् ABC ] किंचित् EV
सुषुप्ते EVAC ] सुप्ते B 50.77 न वेदितु: EYAC ] नामेदितुं B
EYC ] मानाय AB 50.78 चाहुरभियुक्ताः E¥॰1AC ] चाहुरयुक्ताः B 50.79 वि-
डम्बना EYAC] विळम्बना B 50.80 यत्सिद्ध्या लब्धसिद्धिः स्यात् AB ] यत्सिद्धो
लब्धसिद्धिः : स्यात् C; यत्सिद्ध्या बहु सिध्यात् EV1 50.81 °गुण° E¥*±C] गुणक AB
 
50.76
 
50.78 • मानया