This page has been fully proofread once and needs a second look.

विष्णुपादादिकेशस्तोत्रम् ५०
 
स्वभावोक्तिरतिशयोक्तिर्भाविकं चालंकारः। अवतारस्वभाववर्णनात् कारु-

णिकत्वातिशयस्य भारखिन्नत्वेनाध्यवसायादतीतानागतानां प्रत्यक्षायमाण-

वत्वाच्च ॥ ४९ ॥
 
१५२
 

 
अथ भक्ताभ्यवपत्तये मूर्तत्वेन विवृत्तममूर्तं सकलजगदधिष्ठानं सच्चिदानन्दै-

करसं वस्तु भङ्ग्योपास्ते, अमूर्तानुप्रवेशात् मूर्तोपासनस्य;

साधकस्य तु लक्षार्थं तस्य रूपमिदं स्मृतम् ।
 

इति,
 

यथाग्निमानयेत्युक्ते ज्वलत्काष्ठादृते पृथक् ।

नाग्निरानीयते तद्वत् पूज्यो मूर्त्यात्मना शिवः॥

इति वायूक्तेः,
 

क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ।

अव्यक्ता हि गतिर्दु:खं देहवद्भिरवाप्यते ॥
 

इति भगवद्वचनात्,
 

उपाय: सो ऽवताराय नास्ति भेदः कथंचन ।

इत्याचार्यवचनाच्च-

यस्माद्वाचो निवृत्ताः सममपि मनसा लक्षणामीक्षमाणाः
 

स्वार्थालाभात् परार्थव्यपगमकथनश्लाघिनो वेदवादाः ।
 
49.70 साधकस्य तु रूपमिदं स्मृतम् ] Source not known; often quoted in Śaiva
sources (e.g. Mrgendravrtti ad Vidyāpāda 5:16) as as a line of the lost scripture called
the Pauskara [pārameśvaratantra].
 
49.73 यथाग्निमानयेत्युक्ते शिवः ] Vāyaviyasamhitā of the Sivapurāņa, I.31.12.
49.76 क्लेशोऽधिकतर देहवद्भिरवाप्यते ] Bhagavadgītā 12.5.
 
49.78 उपायः सो ऽवताराय नास्ति भेद: कथंचन ] Gaudapādakārikā 3.15.
 
...
 
...
 
49.68 भक्ताभ्यवपत्तये EYAC ] भक्ताभ्युदयोपपत्तये B 49.68 विवृत्तममूर्तं A ] विवृ-
त्तमूर्तं EXBC 49.69 मूर्तोपासनस्य EYC] फलत्वात् मूर्तोपासनस्य AB
साधकस्य ABC ] संधानस्य Eye
 
49.70
 
49.70 लक्षार्थं EYLAC ] लक्षणार्थं B 49.73 शिव:
EVAC ]
om. B 49.74 वायूक्तेः EVAC ] या मूर्ते: B 49.76 गतिर्दु:खं EVMAC ]
गतिऋ--- B 49.79 ° वचनाच्च EXC] वचनाच्च यस्मादित्यादि AB 50.2 ° कथन ०
EYBC ] कथा (unmetrical) A
 
65
 
70
 
75