This page has not been fully proofread.

75
 
विष्णुपादादिकेशस्तोत्रम् ४६
 
पुण्यरज्ज्वा व्रजेदूर्ध्वं पापरज्ज्वा व्रजेदधः ।
 
द्वयं ज्ञानासिना छित्वा विदेहः शान्तिमृच्छति ॥
 
=
 
इति पुराणवचनात् । प्रणाशम् =अत्यन्तोच्छेदम् । विदधतु = कुर्वन्तु । सम्य-
70 ग्ज्ञानमन्तरेण तदनुपपत्तेस्तत्संपादयन्त्वित्यर्थः । केशान् प्रत्येतत्प्रार्थनं चैषां
विशेषतो भक्तानुग्रहसामर्थ्यात्,
 
उवाच च सुरानेतौ मत्केशौ वसुधातले ।
अवतीर्य भुवो भारं क्लेशहानिं करिष्यतः ॥
इत्यादिपुराणवचनात् ।
 
ईशस्य केशान् विदुरम्बुवाहान्
 
इति वचनात् मेघपरत्वेनाप्ययं श्लोको योज्यते – सुप्ताकाराः = पूर्वमव्यक्त-
रूपाः, यत्रकुत्रचिन्निलीनत्वात् । भगवति प्रसुप्ते = स्वप्नुमारब्धे; जगत्प्रल-
यायोद्यते इत्यर्थः ।
 
80
 
१४१
 
यदा जागर्ति विश्वात्मा स तदा चेष्टते जगत्।
निमीलत्येतदखिलं मायाशय्यागते ऽच्युते ॥
इति श्रीविष्णुपुराणवचनात् ।
 
यौ स्वप्नबोधौ तावेव भूतानां प्रलयोदयौ ।
 
.-
इत्यादिमहाकविवचनाच्च । विबुधैरप्यदृष्टस्वरूपाः, तेषामपि हस्तिहस्तप्रमा-
णधारासारविहस्तत्वात् । तत्र हेतुः - व्याप्तव्योमान्तरालाः; कुतश्चिदागत्य
85 गगनतलं व्यावृण्वानः इत्यर्थः । तरलमणिरुचा = चञ्चलया माणिक्यवद्दी-
पप्रभया; तटितेत्यर्थः ।
 
46.68 पुण्यरज्ज्व शान्तिमृच्छति ] Source not known.
 
46.73 उवाच करिष्यतः ] Source not known.
 
46.75 ईशस्य केशान् विदुरम्बुवाहान् ] Bhāgavatapurāņa 2.1.34.
ऽच्युते ] Visnupurāna 6.4.8.
 
46.80 यदा
 
46.82 यौ स्वप्नबोधौ तावेव भूतानां प्रलयोदयौ ] Kumārasambhava 2.8.
 
46.69 विदधतु E¥BC ] om. A 46.70 चैषां E¥‡‡C] च येषां A; च तेषां B
46.74 ° पुराणवचनात् EXAC ] पुराणे B 46.80 निमीलत्येतदखिलं EXBC ] वि
लीयत्येतदखिलं A 46.83 हस्ति° EXAC ] हन्ति B 46.84 ° सारविहस्तत्वात् C]
सावित्रीहतत्वात् EXBसारविहतत्वात् A; सारविहस्तत्वात् C 46.85 व्यावृण्वानः
EXAB ] प्रावृण्वाना C 46.86 माणिक्यवद्दीप• EXC ] माणिक्यदीप A; माणिक्यवद्दीप्त
B 46.86 तटितेत्यर्थः EVAC ] तदित्यर्थः B