This page has been fully proofread once and needs a second look.

विष्णुपादादिकेशस्तोत्रम् ४६
 
=
 
इत्यस्मात् 'सुप्यजातौ णिनिस्ताच्छील्ये' इति णिनिः । तस्य रोषाग्नेः =

क्रोधात्मकस्य वह्नेः, धूम्याः = धूमस्य संचयाः ; 'धूम्या वात्या तु तद्वृ-

न्दे सर्वम्' इति वैजयन्ती । रोषाग्नेरान्तरत्वात् धूमस्योर्ध्वप्रवृत्त्यौचित्यम् ।

अगरुधूम्याग्रहणं भगवत्केशानामपि परिमलबहुलत्वात् कार्ष्ण्यातिशयाच्च।

केशाः=शिरोरुहाः। केशिद्विषः = केशिसंज्ञं तुरगरूपमसुरं हतवतः । के-

शिद्विष इति रोषाग्निना केशैश्च संबध्यते । विपुलक्केलेशपाशप्रणाशम् । विपु- 55

ला=विस्तीर्णाः, अनेकजन्मानुभाव्यदुःखहेतुत्वात्, बहुलभेदत्वाच्च । 'अ-

विद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः' इति स्मृताः, तमोमोहमहामोह-

तामिस्रान्धतामिस्रापरपर्यायाः पञ्च क्लेशाः । प्रकृतिमहदहंकारतन्मात्ररूपे

ऽनात्माष्टके आत्मधीस्तमो ऽविद्या च; अणिमाद्यैश्वर्याष्टके लब्धे ममत्वं

मोहो ऽस्मिता च; दिव्यमानुषत्वेन दशविधेषु शब्दादिविषयेषु सक्तिर्महा-

मोहो रागश्च; ऐश्वर्याष्टकस्य विषयदशकस्य च प्रतिहत्या विकारस्तामिस्रो

द्वेषश्च; एषामेव भोगान्तराले नाशभीतिरन्धतामिस्रो ऽभिनिवेशश्च । अथ

वा, 'अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या', 'दृग्द-

र्शनशक्त्योरेकात्मिकेवास्मिता', 'सुखानुशयी राग: ', 'दुःखानुशयी द्वेषः',

'स्वरसवाही विदुषोऽपि तथा रूढो ऽभिनिवेश: इति लक्षिताः क्लेशाः ।
तद्रूपाणां पाशानाम् =बन्धरज्जूनाम्, ऊर्ध्वाधःकर्षणसाधनत्वात्;
 
65
 
१४०
 
-
 
46.50 सुप्यजातौ णिनिस्ताच्छील्ये ] Astādhyāyī 3.2.78.
46.52 धूम्या वात्या तु तद्वृन्दे सर्वम् ] Vaijayantī 5.1.14.
46.57 अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ] Yogasūtra 2.3.
46.65 अनित्याशुचि
रूढोऽभिनिवेशः ] Yogasūtra 2.5-8.
 
46.56
 
46.58
 
°ता-
46.50 प्लुष दाहे EYVAC ] पुरुष दा B 46.51 धूमस्य ELAC ] तद्भूमस्य B 46.52
धूम॰ EVBC ] धूमस्या A 46.53 ● शयाच्च EYBC ] शयत्वाच्च A 46.55 रोषाग्निना
E¥C ] नेह न रोषाग्निना A; om. B 46.56 विस्तीर्णा
: EXBC ] om. A
॰जन्मानुभाव्य॰ EYLAC ] जन्म
इति लक्षिताः क्लेशाः ।
तद्रूपाणां पा
शा इत्यनुभाव्य B 46.56नाम् =हुलभेदत्वाच्च E¥C]
बहुभेदाच्च A
न्धरज्जूनाम्, ऊर्ध्वाधःकर्षणसाधनत्वात् ; बहुभेदत्वाच्च B 46.58 • महामोह • EXBC ]om. A
मिस्रापर॰ EYAC ] तामिस्र B 46.59 रूपे ऽनात्माष्टके A ] रूपेणात्माष्टके EX BC
46.59 लब्धे EYAC ] वा लब्धे B 46.60 दशविधेषु EYAC ] दशविषयेषु B
विषयदशकस्य A ]om. EXC; विषयशब्दः तस्य B 46.63 अनित्याशुचि ० EXBC ]
अशुचि A 46.64 ° शक्त्योरेकात्मतेवा॰ A ] शक्त्योरेकात्मिकेवा EYBC 46.64 रागः
E¥॰B ] रागं AC 46.65 तथारूढो ऽभिनिवेश: EYAC ] तथाभिरूपोऽभिरिवेशः B
 
1
 
46.61
 
50
 
60