This page has been fully proofread once and needs a second look.

विष्णुपादादिकेशस्तोत्रम् ३७
 
रक्षणप्रकारकथनं चेदम् । इत्थंभूतान् कृत्वा रक्षत्वित्यर्थः । आशिषि लोट् ।

अत्रोत्प्रेक्षालंकारः ॥ ३६॥
 

 
अथ,
 

छन्दांस्यनन्तस्य शिरो गृणन्ति ।
 
20

इति वचनात् छन्दोमयीं भगवतो वाचं मुखप्रस्तावगतामुपास्ते-
10
 

 
ब्रह्मन् ब्रह्मण्यजिह्मां मतिमपि कुरुषे देव संभावये त्वां

शंभो शक्र त्रिलोकीमवसि किममरैर्नारदाद्याः सुखं वः ।

इत्थं सेवावनम्रं सुरमुनिनिकरं प्रेक्ष्य विष्णोः प्रसन्न-

स्यास्येन्दोराम्स्रवन्ती वरवचनसुधा ह्लादयेन्मानसं नः॥ ३७
 
5

 
ब्रह्मन् = हे स्रष्टः ; ब्रह्मणि = सच्चिदानन्दैकरसे निष्कले परमात्मस्वरूपे ।

अजिह्माम् =अकुटिलाम्, यथार्थज्ञानेन विगतसंशयविपर्यासाम् ; अथवा,

अन्तरायरूपालस्यादिरहिताम् । मतिम् = बुद्धिम्; ध्यानरूपामित्यर्थः । सृ

ष्टिशक्त्युद्बोधनायेति भावः;
 
-
 
-
 
=
 

अथाभिध्यायिनस्तस्य सत्याभिध्यायिनस्ततः ।
 

इतिश्रीविष्णुपुराणवचनात्। अपिः प्रश्ने सानुनये । कुरुषे = योजयसि; क-

र्त्रभिप्रायक्रियाफलद्योतकमात्मनेपदम्। देव क्रीडाशीलेति सोत्प्रासं व-
Vv2
 
37.3 प्रेक्ष्य ABCD ] EYEP°E5'ESEY 2
 
११३
 
=
 
36.19 छन्दांस्यनन्तस्य शिरो गृणन्ति ] Bhagavatapurāņa 2.1.31.
 
37.9 अथाभिध्यायिनस्तस्य सत्याभिध्यायिनस्ततः ] Visnupurāna 1.5.16.
 
36.16 ° प्रकार • EXAC ] प्रकाश B 36.16 आशिषि लोट् अथ ED ABC ]om. D
36.20 उपास्ते EVC ] उपास्ते ब्रह्मन्नित्यादि ABD 37.5 हे EYBCD ] om. A 37.5
सच्चिदानन्दैकरसे EYBCD ] सदानन्दैकरसे A 37.6 • विगत° EVACD ] विमत B
37.6 ° संशय • EXACD ] संगमय B 37.6 विपर्यासाम् ABD ] • विपर्ययाम् E¥‡C
37.8 शक्त्युद्बोधनायेति EY ABC ] शक्तिबोधनायेति D 37.9 ॰ध्यायिनस्तत: ABD ]
ध्यायिनः EY॰±C_37.10 प्रश्ने EYC] प्रशो ABD 37.10 योजयसि EYADC ] यो-
जयति B 37.11 कर्त्रभिप्राय° EY1 ] स्वरितञितः कर्त्रभिप्राये ABCD
37.11 सोत्प्रासं
EV॰BCD ] सौत्प्राश A