2023-09-14 05:42:22 by jayusudindra
This page has been fully proofread once and needs a second look.
ण्डलत्वात् आपूरणे =
मुखानिलेन ध्मापने, प्रवीणः = समर्थः; कर्मणि
कुशल इत्यादिवल्लाक्षणिकः प्रयोगः । अधरस्य पूरणकर्तृत्वोक्तिः, तत्र नि-
वेश्य पूर्यमाणत्वात्।
स उच्चकाशे धवलोदरो दरो ह्युरुक्रमस्याधरशोणशोणितः।
इति,
ततः प्रियोपात्तरसेऽधरोष्ठे निवेश्य दध्मौ जलनं कुमारः।
इत्यादिप्रयोगात्; यदा यदा क्षीयते तदा तदा कम्बुप्रवरसदृशस्य शशधर-
स्य स्वसंगृहीतेनामृतरसेन रजतकलशस्येव क्षीरपूरेण पूरणाच्च,
क्षीणं पीतं सुरैः सोममाप्याययति दीप्तिमान्।
मैत्रेयैककलं सन्तं रश्मिनैकेन भास्करः ॥
इति श्रीविष्णुपुराणवचनात्,
यस्मिन् सोमः सुरपितृनरैरन्वहं पीयमानः
क्षीणः क्षीणः प्रविशति यतो वर्धते चापि भूयः ।
इति साम्बोक्तेश्च। वक्त्राकाशान्तरस्थः =मुखविवरसमीपवर्ती; अन्तरश-
ब्दोऽत्र समीपं लक्षयति, राज्ञोऽयमभ्यन्तर इतिवत्; वक्त्रशब्देनारम्भो
लक्ष्यते। मुखभूतस्याकाशस्य मध्ये स्थितः; उदितमात्र इत्यर्थः, उदय-
रागरूषितस्यैवाधरसाम्योक्तेः । दन्ततारौघशोभाम् ; दशनत्वेन स्थितानां
ताराणाम्,