2023-09-14 04:02:12 by jayusudindra
This page has been fully proofread once and needs a second look.
विश्वत्राणैकदीक्षास्तदनुगुणगुणक्षत्रनिर्माणदक्षाः
कर्तारो दुर्निरूपा स्फुटगुरुयशसां कर्मणामद्भुतानाम् ।
शार्ङ्गं बाणं कृपाणं फलकमरिगदे पद्मशङ्खौ सहस्रं
बिभ्राणाः शस्त्रजालं मम दधतु हरेर्बाहवो मोहहानिम् ॥३३॥
विष्णुपादादिकेशस्तोत्रम् ३३
=
विश्वस्यः = जगतः, त्राणे = पालने, एकस्मिन्नेव दीक्षा = व्रतधारणं ये-
षाम् । पूर्णकामस्य प्रयोजनान्तरानुद्देशेन धर्मसंस्थापनमेवापेक्षितमित्येक-
शब्देन द्योतयति ।
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन ।
अनवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥
इति
धर्मसंस्थापनार्थाय संभवामि युगे युगे ।
इत्यादिभगवद्वचनात् । तदुपायप्रयोगवैदग्ध्यमाह
णदक्षाः । तदिति त्राणं परामृश्यते । तस्मिंस्त्राणे,
-
तदनुगुणगुणक्षत्रनिर्मा-
गुणा यस्य, रजोऽधिकसत्त्वविशिष्टत्वात्; क्षत्रस्य = क्षत्रियवर्गस्य; 'स
क्षत्रं नाम वर्णः' इति मुरारिप्रयोगात् । निर्माणे =सर्गे, विदग्धाः
ब्राह्मणोऽस्य मुखमासीत् ।
=
33.2 दुर्निरूपाः स्फुटगुरु EP°EK"ABC ] दुर्निरूपस्फुटगुण EV'दुर्निरूपस्फुटगुरु EJ"
33.4 बिभ्राणाः E¥॰EP°E¥ESEY2AB ] बिभ्राणां C 33.4 दधतु EVESM
E
EVABC ] ददतु EP°ERM
33.9 न मे पार्थास्ति च कर्मणि ] Bhagavadgītā 3.22.
33.11 धर्मसंस्थापनार्थाय संभवामि युगे युगे ] Bhagavadgīta 4.8.
33.15 स क्षत्रं नाम वर्ण: ] Anargharāghava 4.37.
32.31 बाहूनेवोपास्ते E¤°C ] बाहूनेवोपास्ते विश्वत्राणैकदीक्षा इत्यादि A; बाहूनेवोपास्ते
विश्वत्राणेति B 33.6 संस्थापन॰ E¥B ] संस्थान AC
33.9 वर्त एव ABC ] वर्तते न
EV U1 33.10 इति AB ] om. EXIC 33.12 इत्यादि EYLAB ] इत्यादि च C 33.12
॰वैदग्ध्यमाह E¥॰LAB ] वैदग्ध्यमित्यत्राह C
33.14 ° सत्त्व • EXBC ] सत्त्वगुण A 33.14 • वर्गस्य EYBC ] वर्णस्य A
33.12 • गुणगुण • EVAC ] गुणगण B
5
10
15