2023-09-13 14:58:10 by jayusudindra
This page has been fully proofread once and needs a second look.
30
रलयोरविशेषाद्, अलम् = पर्याप्तम्, इति मुखरणक्रियाविशेषणम् ।
=
सारङ्गः शबलो वर्णश्चातकः षट्पदो मृगः।
=
इति वैजयन्ती । षट्पदानां समूहै: । बहुवचनात् उपर्युपरि परिमलपरिमोहि-
तानामनास्वादितपूर्वममृतरसनिन्दकं मकरन्दनिष्यन्दमभिनन्दतां भ्रमराणां
वृन्दसमापतनं द्योत्यते । मुखरितकुसुमा = वाचालितानि पुष्पाण्यङ्गभूता-
35
नि यस्याः । मेचकान्ता च = श्यामलपरिसरा; चकारः सारङ्गसङ्घैरि-
त्यनुकर्षणार्थः। कान्ता; अत एव, परभागलाभेन रमणीयतरा । आभ्यां
विशेषणाभ्यां शब्दरसगन्धरूपातिशयः प्रकाशितो वेदितव्यः । मालालि-
ता; मया = लक्ष्म्या, पुत्रीवत् संभाविता; हरिपरिरम्भसंरम्भेष्वपि सदयं
परिपाल्यमानेत्यर्थः । 'इन्दिरा लोकमाता मा' इत्यमरः । जयन्ती
40
देव्याः श्रियो देवस्य श्रीपतेश्च निरतिशयस्नेहभाजनत्वजनकैः सुकृतैः सर्वं
जगदभिभूय वर्तमाना; माला = वैजयन्त्याख्या स्रक्;
पञ्चरूपा तु या माला वैजयन्ती गदाभृतः ।
सा भूता नेतृसंघाता भूतमाला च वै द्विज ॥
इति श्रीविष्णुपुराणवचनात् । सुखैरिति बहुवचनेन ऐहिकैर्मोक्षसुखपर्यन्तैरि-
45
ति द्योतयति । योजयन्ती = श्लेषयन्ती सती । न विरमतु = अस्मात्
व्यापारात् निवृत्ता मा भूत् । अत्र पादाद्यन्तयमकं शब्दालंकारः व्यापकः ।
=
१०१
31.29 लघु क्षिप्रमरं द्रुतम् ] Amara 1.1.77.
31.31 सारङ्गः शबलो वर्णश्चातकः षट्पदो मृगः ] Vaijayantī 7.5.89.
31.39 इन्दिरा लोकमाता मा] Amara 1.1.32.
31.43 पञ्चरूपा वै द्विज ] Visnupurāņa 1.22.72.
=
31.38
31.30 • विशेषा॰ EYB ] भेदा AC 31.33 ● निष्यन्द० EXBC ]om. A 31.33
भ्रमराणां EX*1 ] इन्दिन्दिराणां A; इन्दिताणां B; इन्दिराणां C 31.34 वृन्द॰ ELB ]
वृन्दशब्द A; वृन्दश: C 31.35 मेचकान्ता च EYBC ] मेचकान्ता A 31.36 ° अनु-
कर्षणार्थः EY॰BC ] आकर्षणार्थ: A 31.37 वेदितव्यः EYAC ] वेदितव्यम् B
पुत्रीवत् BC ] पुत्रीव A; पुत्रवत् EXI
/v1
31.43 भृतः EKBC ] भृतद A 31.43 भूता
नेतृ॰ EV 1 ] भूता होतु A ; भूता हेतु B ; भूतहेतु: C 31.45 श्लेषयन्ती E¥C ] श्लेषन्ति
A; om. B 31.45 अस्मात् EYC ] तस्मात् AB
B 31.46 व्यापक: ABC ] व्यापक° EY1
31.46 निवृत्ता EVAC ] निमित्तं