This page has been fully proofread once and needs a second look.

९६
 
संभूय जनित्वा, अम्भोधिमध्यात् = समुद्रगर्भात् । सपदीत्यचिन्त्याविर्भावं 5

द्योतयति । सहजया, तस्या अप्यमृतमथनसमये स्वेन सहजातत्वात् सोद-

र्या, सदा श्रिया मङ्गलदेवतया सहेत्यायाति । सन्निधत्ते = सदावतिष्ठते ।

नीले = असितवर्णे, हारतारोपसेव्ये; ताराभिः = नक्षत्रैरिव, मुक्तावलीभि-

राश्रयणीये। नारायणोरःस्थलगगनतले शेषशायिनो विपुलायतत्वा-

दाकाशतुल्ये वक्षसि। आशाः = दिशः । प्रकाशाः = प्रकर्षेण व्यक्तरूपाः;

प्रकाशशब्दो धर्मिणि धर्मे च वर्तते,
 
-
 

श्रुतप्रकाशं यशसा प्रकाशः ।
 

इति
 
-
 
=
 

 
विष्णुपादादिकेशस्तोत्रम् ३०
 
=
 

 
तिमिरनिकरमुद्यन्नैन्दवः प्राक्प्रकाशः ।

इति च प्रयोगात् । विदधत्
 
-
 
= कुर्वन् । अपिदधत् =तिरस्कुर्वन् । आत्मभासा

= स्वस्य तेजसा, अन्यतेजांसि आदित्यादिप्रभाः । आश्चर्यस्य = विस्मय-

जननस्य कर्मणः, अमृतवर्षणादेः । आकरः = उत्पत्तिस्थानम्। 'किंनाम्नो

वा पितुरयममृतवर्षी कौस्तुभमणिरिव हरेर्हृदयमाह्लादयति' इति हर्षो-

क्तेः। कौस्तुभः - तदाख्यया ख्यातः, मणिः = माणिक्यम् । भूत्यै = समृद्ध्यै ।

अस्तु = भवतु, इति प्रार्थने लोट् । द्युमणिः; दिवसस्य दीपो वा,
प्रकाश-
कत्वादादित्यः; स इव । सोऽपि समुद्रात् संभूय सहजया तुल्यकालमावि-

र्भवन्त्या लक्ष्म्याः श्रिया, उदयरागशोभया नारायणोरःस्थलतुलिते गग-
=
 
प्रकाश- 20
 
=
 
=
 
30.12 श्रुतप्रकाशं यशसा प्रकाशः ] Raghuvamsa 5.2.
 
30.14 तिमिरनिकरमुद्यन्नैन्दवः प्राक्प्रकाशः ] Mālatīmādhava 8.1,
30.18 किं
॰ह्लादयति ] Harsacarita, Ucchvāsa I, p. 11.
 
10
 
30.5 • चिन्त्याविर्भावं EXAB ] चिन्त्यविभवत्वं C 30.6 तस्या EYAC ] om. B 30.6
 
· समये ABC ] काले EY 30.6 स्वेन EVLAB ] तेन C 30.7 सोदर्या AC ] सोदर्य
B; सोदर्यत्वम् EX*1 30.7 सदा श्रिया E¥1B ] श्रिया A; om. C 30.7 सदावतिष्ठते
EXBC ] तदावतिष्ठते A 30.10 वक्षसि EXC] वक्षस्तटे AB 30.11 वर्तते E¥‡‡C]
30.17 ॰ जननस्य EYBC ]
आदित्यः स इव EYLAB ]
 
om. AB
 
30.16 अन्यतेजांसि EXBC ] जन्यतेजांसि A
जनस्य A 30.20 दीपो वा EYBC ] दीपो A
आदित्यस्य इव C 30.22 तुल्यकालमाविर्भवन्त्या EX-C] तुल्यकालमाविर्भूतयावन्त्या
A; तुल्यकालं B 30.22 लक्ष्म्या EVC ] om. AB
 
30.21
 
15