This page has been fully proofread once and needs a second look.

35
 
40
 
45
 
विष्णुपादादिकेशस्तोत्रम् ३०
 
तेन द्विपानामिव पुण्डरीको राज्ञामजय्यो ऽजनि पुण्डरीकः ।

शान्ते पितर्याहृतपुण्डरीको यं पुण्डरीकाक्षमिवाश्रिता श्रीः ॥

इत्यादिमहाकविप्रयोगात् । अत्र च, यः श्रीपतेः संबन्धी श्रीवत्सनामा

स्वयं श्रीमान् कौस्तुभश्रीप्रतानैराप्यायितः श्रियो दयितश्च तस्येत्यर्थः।

सर्वतः श्रीमयानामस्माकं श्रीविधाने कोऽतिभार इति प्रकाशने तात्पर्यात् ।

लाटानुप्रासे अर्थान्तरसंक्रमितवाच्ये हि तस्यानुवाद्यत्वेन च कथितपदस्य

गुणत्वकथनाच्च । अत्रोपमा, उत्प्रेक्षा चालंकारः ॥ २९ ॥
 

 
श्रीवत्ससंस्थानधरमनन्ते च समाश्रितम् ।

प्रधानं बुद्धिरध्यास्ते गदारूपेण माधवम्।
 

इति वचनात् प्रधानतत्त्वात्मकश्रीवत्समुपास्य, इदानीम्

आत्मानमस्य जगतो निर्लेपमगुणामलम् ।
 

बिभर्ति कौस्तुभमणिस्वरूपं भगवान् हरिः ॥
 

इति वचनात्, आत्मतत्त्वात्मनानुसन्धेयं कौस्तुभमणिराजमुपास्ते
 
"
 

 
संभूयाम्भोधिमध्यात् सपदि सहजया यः श्रिया संनिधत्ते

नीले नारायणोरःस्थलगगनतले हारतारोपसेव्ये ।
 

आशाः सर्वाः प्रकाशा विदधदपिदधच्चात्मभासान्यतेजां-

स्याश्चर्यस्याकरो नो द्युमणिरिव मणिः कौस्तुभः सो ऽस्तु भूत्यै ॥ ३०॥
 
29.36 तेन द्विपानामिव
 
श्रीः ] Raghuvamsa 18.8.
 
29.43 श्रीवत्ससंस्थान
 
माधवम् ] Visnupurāna 1.22.69.
 
29.46 आत्मानमस्य भगवान् हरिः ] Visnupurāna 1.22.68.
 
-
 
९५
 
29.36 द्विपानामिव EXAC ] द्विपदानामिव B 29.37 यः श्रीपतेः AB ] श्रीपतेः E¥‡‡C
29.39 श्रीमयानामस्माकं EXC ] श्रीमयस्यामस्माकं A; श्रियास्माकं B
29.39 प्रकाशने
BC ] प्रकाशन A; om. Eyvi 29.40 वाच्ये हि तस्यानुवाद्यत्वेन च ELC ] वाच्यत्वेन
विहितस्यानुवाद्यत्वे च A; वामेव्याद्यत्वच्च B 29.43 संस्थानधरमनन्ते च A ] • संस्था-
नधाने ऽन्ते च EYB; संस्थानधनमनन्ते सु C 29.46 जगतो ABC ] च जगतो EY
29.46 निर्लेपम C] निर्लेपं EYAB 29.47 • सन्धेयं EXBC ] सन्धेयत् A 29.47
॰मुपास्ते EY॰C] मुपास्ते संभूयेत्यादि A; मुपास्ते संभूयादित्यादि B