This page has been fully proofread once and needs a second look.

९४
 
अङ्काधिरोपितमृगश्चन्द्रमाः
इत्यादिवचनैः,
 
शशलाञ्छनः।
 

इत्यादिवचनैः,
मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति ।
 
=
 
=
 

इति शाकुन्तलोक्तेश्च । मधुपः = भ्रमरः इव; तरोः इत्यर्थान्तरसंक्रमि
-
तवाच्येन ध्वनिना सहृदयसदसि वृक्षत्वव्यपदेशयोग्यस्य पारिजातादेरिति 20

द्योत्यते। मञ्जरीम् = कुसुममल्लिकाम् । कान्तामिति लिङ्गविपरिणामः । त

स्यापि बहुलमधुरसपरिमलभरसूचकत्वात् परभागजनकत्वं तु सर्वत्र स्फु

टमेव। श्रीमान् = स्वयं निरतिशयशोभाविशिष्टः । आहार्यशोभाप्यस्या-

स्तीत्याह- कौस्तुभश्रीप्रतानैः; कौस्तुभस्य ,श्रीः = प्रभा, तस्याः प्रता-

नैः=विस्तारैः, अविरलमिलितः निरन्तरं घटितः, सदा समीपवर्ति-

त्वात् । श्रीवत्सः = उत्तमलक्षणभूतो रोमावर्तविशेषः;
 

श्रीवत्सेनोरसि श्रीमान् रोमावर्तेन राजते ।
 
"
 

इति श्रीहरिवंशोक्तेः । श्रियः = कमलायाः, वत्सः = पुत्रः इव, दयि-

तः = स्नेहभूमिः; 'दक्षिणस्तनाद् धर्मः' इति भागवतोक्तेः, दक्षिणस्तन-

समीपवर्तित्वात् श्रीवत्सस्य तत्स्थानवासनाच्च श्रिय इति भावः । नित्य- 30

मुच्चैः श्रियम् = सर्वदा निरतिशयां संपदं भगवदनुभूतिलक्षणाम्; विधे-

यात् = कुर्यात्, इत्याशीर्लिङ् । अत्र श्रीशब्दस्य बहुश आवृत्तावपि न क

थितपदत्वदोषप्रसङ्गः, संबन्धिभेदादर्थभेदस्य दर्शितत्वात् लाटानुप्रासत्वेन

चमत्कारकारित्वात्,
 
=
 
-
 
=
 
विष्णुपादादिकेशस्तोत्रम् २९
 
,
 
29.16 अङ्काधिरोपितमृगश्चन्द्रमाः शशलाञ्छन: ] Siśupālavadha 2.53.
 
29.18 मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति ] Abhijñānaśākuntala 1.18.
29.27 श्रीवत्सेनोरसि श्रीमान् रोमावर्तेन राजते ] Harivamśa 55.2.
 
29.29 दक्षिणस्तनाद् धर्म: ] Bhāgavatapurāņa 3.12.25.
 
-
 
29.16 शशलाञ्छन: EYC ] मृगलाञ्छन: AB 29.19 मधुप: EYBC ] मधुप इव A
29.19 इव तरोरित्यर्थान्तर• EKAC ] इत्यर्थान्तर B 29.21 • मल्लिकाम् EXB ] क-
ल्लिकाम् A; कलिकाम् C 29.22 बहुल° EYBC ] बहल A
 
29.22 °भर EXAB ]
हार C 29.24 कौस्तुभश्रीप्रतानैः EC ] om. AB 29.26 ° लक्षण • EYAC ] लक्ष B
 
29.29 दक्षिण • E¥AB ] दक्षिणात् C
सव्यसनाच्च A; संस्थानव्यासव्यसनाच्च C
कुर्यात् इत्याशिषि लिङ् 29.33 कथित°
E¥C ] भेदादर्थस्य A; भेदादनर्थकस्य B
ED¹B
 
29.30 तत्स्थानवासनाच्च EYB ] तत्स्थानवा-
29.32 कुर्यात् इत्याशीर्लिङ् EYC ] om. A;
EYBC ] कथितम् A
29.33 भेदादर्थ
 
29.34 कारित्वात् C ] कारित्व A; कारि
 
25