This page has not been fully proofread.

८४
 
क्रियत इति; अनेन
 
निमित्तमात्रमेवासौ सृज्यानां स्वस्वकर्मणि ।
 
प्रधानकारणीभूतो यतो वै सृज्यशक्तयः ।
 
इति,
 
विष्णुपादादिकेशस्तोत्रम् २५
 
यथर्तुष्वङ्गलिङ्गानि नानारूपाणि पर्यये ।
वर्तन्ते तानि तान्येव तथा भावा युगादिषु ।
 
इत्यादिवचनैः समर्थितं ब्रह्मणो निमित्तत्वमात्रम्, स्वत एवोत्पत्तिं च प्रका-
शयति । महदादितत्त्वात्मना विवर्तत इत्यर्थः । विकल्पैः = विविधाभिर्द्र-
व्यगुणकर्मादिकल्पनाभिः, विततम् = व्याप्तम्, विश्वम् = जगत् । एतदित्य-
भिनयेन दृश्यत्वमिथ्यात्वं सूचयति,
 
ततः प्रबुद्धो रात्र्यन्ते पुनः सृष्टिं करोत्यजः ।
 
इति वचनात् । कल्पान्ते; परसंज्ञस्य ब्रह्मायुषः पूरणस्य ब्रह्मादिनस्या-
वसानकाल इत्यर्थः। अतश्च प्राकृतप्रलयो ऽत्र कल्पान्तशब्देनाभिधीयते ।
न तु नैमित्तिकः, सकलं स्थावरं जङ्गमं चेत्यविशेषेण प्रवेशप्रतिपादनात् । 20
कल्पाद्यन्तग्रहणेन, मध्यकाले यत्र स्थितमित्यर्थः सामर्थ्याल्लभ्यते । आ-
द्यन्तयोरभावप्रतिपादनात्, शुक्तिरूप्यस्येव मध्यकाले ऽप्यज्ञानाप्रतिभातत्वं
च प्रकाश्यते,
 

 

 
25.9 निमित्तमात्रमेवासौ वै सृज्यशक्तयः ] Visnupurāņa 1.4.51.
 
25.12 यथर्तुष्वङ्ग
 
युगादिषु ] Visnupurāna 1.7.65.
 
25.17 ततः प्रबुद्धो
 
करोत्यजः ] Visnupurāna 6.4.10.
 
25.8 स्वस्व॰ EXC] सर्ग AB 25.9 कारणीभूतो ● लिङ्गानि EVAC ] कारणी
B 25.9 °कारणीभूतो EXC] करणीभूत A 25.9 यतो ABC ] --- EY1 25.11
यथर्तुष्वङ्ग॰ EVB ] यथर्तुष्वतु AC 25.11 °रूपाणि EYLAC ] रूपेण B 25.13 नि
मित्तत्वमात्रम् ELºC ] निमितिमात्रत्वम् A; निमित्तमात्रत्वम् B 25.13 स्वत EYC ]
सत AB 25.13 एवोत्पत्तिं EYAB ] एवोत्पत्तिमात्रत्वं C 25.14 महदादि EXBC ]
मदादि A 25.18 पूरणस्य ABC ] om. EK 25.19 प्राकृत° E¥BC ] प्रकृत A
25.20 • प्रवेश ] om. EXC; प्रवशस्य B 25.21 कल्पाद्यन्त A] कल्पान्त° E¥BC
25.21 यत्र ABC ]om. Ey 25.22 आद्यन्तयोरभाव• EYAC ] आद्यन्तयोरप्रभाव
B 25.22 शुक्तिरूप्यस्येव EYA] शुक्तिरूपस्येव B; शुक्तिकरूप्यस्य च C
ऽप्यज्ञाना• EDAB] ऽपि विज्ञाना C 25.23 ● भातत्वं च EYAC ] भातत्वं B
 
10
 
25.22
 
15