This page has been fully proofread once and needs a second look.

७८
 
विष्णुपादादिकेशस्तोत्रम् २३
 
अथ 'नभःस्थलं नाभिसरो गृणन्ति' इत्युक्तं भगवतो नाभिदेशमुपास्ते
 
-
 
उन्नम्रं कम्रमुच्चैरुपचितमुदभूद् यत्र पत्रैर्विचित्रैः
 

पूर्वं गीर्वाणपूज्यं कमलजमधुपस्यास्पदं तत्पयोजम् ।

यस्मिन्नीलाश्मनीलैस्तरलरुचिजलैः पूरिते केलिबुद्ध्या

नालीकाक्षस्य नाभीसरसि वसतु नश्चित्तहंसश्चिराय ॥ २३ ॥
 
=
 

 
उन्नम्रम् =उत्तुङ्गस्वभावम्। कम्रमुच्चैः = अतिशयेन सुन्दरम्, पद्मान्तरेषु

तादृशशोभाभावात् । उपचितम् = समन्तात् परिवृतं समृद्धं वा । पत्रैः =द-

लैः । विचित्रैः =नानारूपैः, सप्तद्वीपनवखण्डादिभेदविशिष्टत्वात् । पूर्वम्
=
आदौ भवम्। गीर्वाणपूज्यम् =देवैरर्चनीयम्। तत्र हेतुः – कमलजमधुप-

स्य = ब्रह्मरूपस्य भ्रमरस्य, भगवत्स्वरूपानुभवरूपपरमरसास्वादनशील-
=
 
...
 
"
 

स्य च । विष्णोः पदे परे । आस्पदम् =आधारभूतम् । कमलजेत्याद्यास्पद- 10

मिति तत एव जातत्वं तदाधारत्वं चाह । अत एव सकलजगत्स्स्रष्टुरुत्प-

त्तिस्थानत्वात् गीर्वाणानामपि पूज्यमिति भावः । पयोजत्वान्मधुपरूपणम्;

तत्र स्थितो ब्रह्मा भगवदनुभवानन्दरूपमकरन्दमास्वादयतीति द्योतयितुं म
-
धुपेत्युक्तिः । 'विष्णोः पदे परमे मध्व उत्सः ।' इति । 'आतो ऽनुपसर्गे
 
23.3 यस्मिन् EY॰±E$E¥±C ] तस्मिन् ABEL°E5"
 
22.51 नभःस्थलं नाभिसरो गृणन्ति ] Bhāgavatapurāna 2.1.27.
23.14 विष्णोः पदे परमे मध्व उत्सः ] Rgveda 1.154.5d.
 
22.51 नाभिदेशमुपास्ते EXC ] नाभिदेशमुपास्ते उन्नम्रमित्यादि A; नाभिदेशमुपास्ते उ
नम्रमिति B 23.5 उत्तुङ्ग • EXC] उत्तुङ्गता AB 23.6 समृद्धं वा EXAC ] वा B
23.7 • भेद° EYBC ] om. A 23.10 भगवत्स् परे EXBC ] om. A 23.11 क
मलजेत्याद्यास्पदमिति EYBC ] कमलजेत्यास्पदमिति च A 23.11 जातत्वं EYBC ]
जाततत्वं A 23.12 °स्रष्टुरुत्पत्तिस्थानत्वात् EXAC ] स्रष्टुरेतिस्थानावत्वात् B
गीर्वाणानामपि ELIAC ] गीर्वाणानामिति B 23.12 पूज्यमिति EYC] पूज्यत्वादि-
ति A; पूज्यत्वादपि B 23.14 मधुपेत्युक्तिः EV॰LAC ] मधुवित्युक्तिः B
E¥॰AC ] पाद B 23.14 श्रुतेः E¥‡‡BC ] श्रुतेः मधुप इति A
 
23.12
 
23.14 पदे
 
5