2023-09-10 12:46:23 by ambuda-bot
This page has not been fully proofread.
विष्णुपादादिकेशस्तोत्रम् १४
प्रकटम् =स्पष्टम्; लिङ्गवाक्यादिव्यतिरेकेण श्रुत्यैव साक्षादित्यर्थः । अभि-
25 हिता = उक्ता । सर्ववेदेषु = ऋग्यजुःसामाख्ये वेदत्रये । 'सहस्रशीर्षा पुरुषः
सहस्राक्षः सहस्रपात्' इत्यादिवचनैः । पुरुषसूक्तस्य सर्ववेदेषु साम्यात्
सर्ववेदेष्वित्युक्तिः ।
उद्धृतासि वराहेण कृष्णेन शतबाहुना ।
-
इति मन्त्राच्च। विश्वंभरा =भूमिः, यैर्व्याप्ता सर्वतः समाक्रान्ता । अ-
30 तिवितततनोः = स्थूलरूपेण विवृत्तस्य । कथं विवृत्तत्वमित्यत्राह – वि
श्वमूर्तेः; विश्वम् चराचरभूतविशिष्टं ब्रह्माण्डम् मूर्तिः = विग्रहो यस्य ।
तदानीं विराजः = विविधं राजतः, विराट्संज्ञस्य; हिरण्यगर्भस्येत्यर्थः ।
'हिरण्यगर्भः समवर्तताग्रे' इति श्रुतेः ।
सहस्रसंख्यैर्गगनं शिरोभिः पादैर्भुवं व्याप्य वितिष्ठमानम् ।
विलोचनस्थानगतोष्णरश्मिनिशाकरं साधु हिरण्यगर्भम् ॥
इति माघोक्तेः । विष्णोरिति विशेष्यनिर्देश:
35
40
=
=
2
अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ।
इति श्रुतेः, व्याप्तस्यारूपस्य परमात्मनः इति । अनेन लीलागृहीतविग्रहत्वं
प्रकाश्यते,
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन्।
प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया ॥
इति भगवद्वचनात्,
14.26 सहस्रशीर्षा सहस्रपात् ] Rgveda 10.90.1.
14.28 उद्धृतासि वराहेण कृष्णेन शतबाहुना ] Mahānārāyaņopanisad 2:38.
14.33 हिरण्यगर्भः समवर्तताग्रे ] Rgveda_10.121.1.
14.35 सहस्रसंख्यैर्गगनं हिरण्यगर्भम् ] Siśupālavadha 4.4.
...
=
५९
14.37 अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ] Taittirīyāranyaka 10.11.2c.
14.41 अजोऽपि सन् संभवाम्यात्ममायया ] Bhagavadgīta 4.6.
14.24 प्रकटम् स्पष्टम् EVAC ] प्रकल्पनाप्पष्टम् B 14.24 व्यतिरेकेण EYC ]
कल्पनाव्यतिरेकेण AB 14.32 विविधं राजत: EY1 ] विविधं राजतेति AB; विराजत
इति C 14.35 • निशाकरं EYB ] दीपाकरं A; निशाचयं C 14.36 विशेष्य॰ Ey 1
AB ] विशेषस्य C 14.38 श्रुतेः E¥AC ] om. B 14.38 गृहीत ABC ] om. E¥ 1
14.41 प्रकृतिं स्वामधि° EXAC ] प्रकृतिः साममधि B