This page has been fully proofread once and needs a second look.

आक्रामद्भ्यां त्रिलोकीमसुरसुरपती तत्क्षणादेव नीतौ

याभ्यां वैरोचनीन्द्रौ युगपदपि विपत्संपदोरेकधाम ।

ताभ्यां ताम्रोदराभ्यां मुहुरहमजितस्याञ्चिताभ्यामुभाभ्यां

प्राज्यैश्वर्यप्रदाभ्यां प्रणतिमुपगतः पादपङ्केरुहाभ्याम्॥ १३॥
 
विष्णुपादादिकेशस्तोत्रम् १३
 

 
त्रिलोकीम्
 
= भूम्यन्तरिक्षस्वर्गात्मकं लोकत्रयसमाहारम्। आक्रामद्भ्याम्

= समन्तात् मिमानाभ्याम् । असुरसुरपती वैरोचनीन्द्रौ; यथासंख्यम्,

असुराणां पतिर्वैरोचनिः = बलिः ;
 

विरोचनश्च प्रह्लादाद् बलिर्जज्ञे विरोचनात् ।
 
=
 
=
 
=
 

इति पुराणवचनात्; सुराणां पतिरिन्द्रश्च । 'अल्पाच्तरम्' इतीन्द्रशब्दस्य

पूर्वनिपाते प्राप्ते व्यवहतत्रैलोक्यलक्ष्मीकादिन्द्रात् समग्रैश्वर्यस्य परमधार्मि- 10

कस्य वैरोचनेरभ्यर्हितत्वद्योतनार्थं पूर्वनिपातः । विशेषणेन सपक्षसहित-

योर्निग्रहानुग्रहावाह। आक्रामद्भ्यामिति शत्रा प्रारम्भं सूचयन् तत्क्षणादे-

वेत्यप्रतीकारत्वबुद्धिं प्रकाशयति । नीतौ = प्रापितौ । युगपत् = तुल्यकालम् ।

अपिर्भिन्नक्रमः। विपत्संपदोरपीति संबन्धः । विपदः असमग्रैश्वर्यरूपा-

या आपदः, संपदः
तद्विपर्ययरूपायाः समृद्धेरपि। एकधाम
या आपदः, संपदः
= परां
काष्ठाम्। ताम्रोदराभ्याम् = अरुणतलाभ्याम् । मुहुः = अनुक्षणम् । अजित-

स्य = विष्णोः ।
 
=
 
परां
 
=
 
-
 

जय जय जह्यजामजित दोषगृभीतगुणाम्।
 

इत्यादिपुराणवचनात् । अञ्चिताभ्याम् = अविशेषेण सर्वैः पूजिताभ्याम् ।
 
13.8 विरोचनश्च प्रह्लादाद् बलिर्जज्ञे विरोचनात् ] Visņupurāņa 1.21.1.
 
13.9 अल्पाच्तरम् ] Astādhyāyī 2.2.34.
 
13.18 जय जय जयजामजित दोषगृभीतगुणाम् ] Bhāgavatapurāņa 10.87.14.
 
5
 
1
 
13.8 प्रह्लादाद् E¥C] प्राह्लादादिर् ABD 13.9 • शब्दस्य D] om. D 13.10 व्य-
वहतत्रैलोक्यलक्ष्मीका conj. ] व्यवहृतत्रैलोक्यलक्ष्मीका ABDप्यपकृतत्रैलोक्यलक्ष्मीकाद् C;
त्रैलोक्यैश्वर्या E¥‡
13.10 समग्रैश्वर्यस्य ABCD ] समग्रैश्वर्य • Ey 13.14 अपिर्भिन्न
EVAC ] विभिन्न B 13.14 समग्रैश्वर्यभ्रंश AC ] असमग्रैश्वर्य • EYB 13.15 एकधाम
EVBC ] एकदाम A 13.18 ॰ गुणाम् ELLAC ] om. B
प्रयोगात् ABC 13.19 अञ्चिताभ्याम् E¥"B] अर्चिताभ्याम् AC
 
13.19
 
॰वचनात् EV"] ]
13.19 अविशेषेण
 
EYBC ] विशेषेण A
 
15