This page has not been fully proofread.

२३
 
प्रत्ययसामग्रीविनिर्मुक्तं पृथगेव च नास्ति, तस्मान्निः स्वभावम्, निःस्वभावत्वाच्छून्यम् ।
ननु शून्यत्वं सिद्धं निःस्वभावत्वादस्य मदीयवचसः । यथा चैतन्मद्वचनं निःस्वभावत्वा-
च्छून्यं तथा सर्वभावा अपि निःस्वभावत्वाच्छून्या इति । तत्र यद्भवतोक्तं त्वदीयवचसः
शून्यत्वाच्छून्यता सर्वभावानां नोपपद्यत इति तन्न ।
किञ्चान्यत् ।
 
यश्च प्रतीत्यभावो भावानां शून्यतेति सा प्रोक्ता ।
यश्च प्रतीत्यभावो भवति हि तस्यास्वभावत्वम् ॥ २२ ॥
 
शून्यतार्थं च भवान् भावानामनवसाय प्रवृत्त उपालम्भं वक्तु त्वद्वचनस्य निःस्व-
● भावत्वाद्भावानां स्वभावप्रतिषेधो नोपपद्यत इति । इह हि यः प्रतीत्यभावो भावानां
सा शून्यता । कस्मात् । निःस्वभावत्वात् । ये हि प्रतीत्यसमुत्पन्ना भावास्ते न
सस्वभावा भवन्ति स्वभावाभावात् । कस्मात् । हेतुप्रत्ययसापेक्षत्वात् । यदि हि स्व-
भावतो भावा भवेयुः, प्रत्याख्यायापि हेतुप्रत्ययञ्च भवेयुः । न चैवं भवन्ति । तस्मा-
निःस्वभावा निःस्वभावत्वाच्छून्या इत्यभिधीयन्ते । एवं मदीयमपि वचनं प्रतीत्य-
समुत्पन्नत्वान्निः स्वभावं निःस्वभावत्वाच्छून्यमित्युपपन्नम् । यथा च प्रतीत्यसमुत्पन्न-
त्वात् स्वभावशून्या अपि रथपटघटादयः स्वेषु स्वेषु कार्येषु काष्ठतृणमृत्तिकाहरण
मधूदकपयसां धारणे शीतवातातपपरित्राणप्रभृतिषु वर्तन्ते, एवमिदं मदीयवचन
प्रतीत्यसमुत्पन्नत्वान्निःस्वभावमपि निःस्वभावत्वप्रसाधने भावानां वर्तते । तत्र यदुक्तं
• निःस्वभावत्वात् त्वदीयवचनस्य शून्यत्वं, शून्यत्वात्तस्य च तेन सर्वभावस्वभावप्रतिषेधो
नेपपन्न इति तन्न ।
किञ्चान्यत् ।
 
निर्मितको निर्मितकं मायापुरुषः स्वमायया सृष्टम् ॥
प्रतिषेधयेत यद्वत् प्रतिषेधोऽयं तथैव स्यात् ॥२३॥
 
यथा निर्मितकः पुरुषोऽन्यं निर्मितकं पुरुषं कस्मिंश्चिदर्थे वर्तमानं प्रतिषेधयेत्
मायाकारेण वा सृष्टो मायापुरुषोऽन्यं मायापुरुषं स्वमायया सृष्टं कस्मिंश्चिदर्थे वर्तमान
 
fr