This page has not been fully proofread.

२२
 
अथ हेतोरस्तित्वं भावास्वाभाव्यम् इत्यनुपपन्नम् ॥
 
लोकेषु निःस्वभावो न हि कश्चन विद्यते भावः ॥ १६॥
 
यदि हेतोरस्तित्वं मन्यसे निःस्वभावाः सर्वभावा इति, तदनुपपन्नम् । किं कारणम् ।
न हि लोके निःस्वभावः कश्चिद्भावोऽस्ति ।
किञ्चान्यत् ।
 
पूर्वं चेत्प्रतिषेधः पश्चात्प्रतिषेध्यमित्यनुपपन्नम् ॥
पश्चाच्चानुपपन्नो युगपच्च यतः स्वभावः सन् ॥२०॥
 
इह पूर्वं चेत्प्रतिषेधः पश्चाच्च प्रतिषेध्यमिति नोपपन्नम् । असति हि प्रतिषेध्य
कस्य प्रतिषेधः । अथ पश्चात्प्रतिषेधः पूर्वं प्रतिषेध्यमिति च नोपपन्नम्। सिद्धे हि
प्रतिषेध्ये किं प्रतिषेधः करोति । अथ युगपत् प्रतिषेधप्रतिषेध्ये इति तथापि न प्रतिषेधः
प्रतिषेध्यस्यार्थस्य कारणम्, प्रतिषेध्यो न प्रतिषेधस्य च यथा युगपदुत्पन्नयोः
शशविषाणयोनैव दक्षिणं सव्यस्य कारणं सव्यं वा दक्षिणस्य कारणं भवतीति । तत्र
यदुक्तं निःस्वभावाः सर्वभावा इति तन्न २ ।
अत्रोच्यते । यत्तावद्भवतोक्तं
 
सर्वेषां भावानां सर्वत्र न विद्यते स्वभावश्चेत् ।
त्वद्वचनमस्वभावं न निवर्तयितुं स्वभावमलम् ॥ इति
 
अत्र ब्रूमः ।
 
हेतुप्रत्ययसामग्र्यां च पृथक् चापि मद्वचो न यदि ॥
ननु शून्यत्वं सिद्धं भावानामस्वभावत्वात् ॥२१॥
 
यदि मद्वचो हेतौ नास्ति महाभूतेषु संप्रयुक्तेषु विप्रयुक्तेषु वा, प्रत्ययेषु नास्त्युर:-
कण्ठौष्ठजिह्वादन्तमूलतालुनासिकामूर्द्धप्रभृतिषु यत्नेषु, नोभयसामग्र्यामस्ति, हेतु-
१ प्रतिषेधषेध्य इति (J K) २–cf. NS. II. १-१२-१४
 
Po
 
Pemung wie keing