This page has not been fully proofread.

२१
 
अथ नैवास्ति ग्राहो नैव ग्राह्यं न च ग्रहीतारः ।
प्रतिषेधः प्रतिषेध्यं प्रतिषेद्धारो ननु न सन्ति ॥ १५ ॥
 
अथ मा भूदेष दोष इति कृत्वा नैव ग्राहोऽस्ति नैव ग्राह्यं न च ग्रहीतार इत्येवं सति
हस्य यः प्रतिषेधो निःस्वभावाः सर्वभावा इति सोऽपि नास्ति, प्रतिषेध्यमपि नास्ति,
प्रतिषेद्धारोऽपि न सन्ति ।
 
प्रतिषेधः प्रतिषेध्यं प्रतिषेद्धारश्च यद्युत न सन्ति ।
सिद्धा हि सर्वभावास्तेषामेव स्वभावश्च ॥ १६॥
 
• यदि च न प्रतिषेधो न प्रतिषेध्यं न प्रतिषेद्धारः सन्त्यप्रतिषिद्धाः सर्वभावा अस्ति च
सर्वभावानां स्वभावः ।
 
किञ्चान्यत् ।
 
हेतोश्च ते न सिद्धिः स्वाभाव्यात् कुतो हि ते हेतुः ।
निर्हेतुकस्य सिद्धिर्न चोपपन्नास्य तेऽर्थस्य ॥१७॥
 
निःस्वभावाः सर्वभावा इत्येतस्मिन्नर्थे ते हेतोरसिद्धिः । किं कारणम् । निःस्व
मावत्वाद्धि सर्वभावानां शून्यत्वात्ततो हेतुः कुतः । असति हेतौ निर्हेतुकस्यार्थस्य शून्या:
सर्वभावा इति कुत एव प्रसिद्धिः । तत्र यदुक्तं शून्याः सर्वभावा इति तन्न ।
किञ्चान्यत् ।
 
यदि चाहेतोः सिद्धिः स्वभावविनिवर्तनस्य ते भवति ॥
स्वाभाव्यस्यास्तित्वं ममापि निर्हेतुकं सिद्धम् ॥ १५॥
 
अथ मन्यसे निर्हेतुकी (का) सिद्धिनिःस्वभाववत्वस्य भावानामिति यथा तव स्वभाव-
विनिवर्तनं निर्हेतुकं सिद्धं तथा ममापि स्वभावसद्भावो निर्हेतुकः सिद्धः ।