This page has not been fully proofread.

२०
 
इह च सतोऽर्थस्य प्रतिषेधः क्रियते नासतः । तद्यथा नास्ति घटो गेह इति सतो
घटस्य प्रतिषेधः क्रियते नासतः । एवमेव नास्ति स्वभावो धर्माणामिति सतः स्वभावस्य
प्रतिषेधः प्राप्नोति नासतः । तत्र यदुक्तं निःस्वभावाः सर्वभावा इति तन्न । प्रतिषेध-
संभवादेव सर्वभावस्वभावोऽप्रतिषिद्धः ।
 
किञ्चान्यत् ।
 
अथ नास्ति स स्वभावः किं नु प्रतिषिध्यते त्वयानेन ।
वचनेनर्ते वचनात्प्रतिषेधः सिध्यति ( १ ) ह्यसतः ॥ १२ ॥
 
अथ नास्त्येव स स्वभावः अनेन वचनेन 'निःस्वभावाः सर्वभावा' इति किं भवता
प्रतिषिध्यते । असतो हि वचनाद्विना सिद्धःप्रतिषेधः, तद्यथाग्नेः शैत्यस्य अपामौष्ण्यस्य ।
किञ्चान्यत् ।
 
•बालानामिव मिथ्या मृगतृष्णायां यथा जलग्राहः ।
 
एवं मिथ्याग्राहः स्यात्ते प्रतिषेधतो (२) ह्यसतः ॥१३॥
 
स्यात्ते बुद्धिः, यथा बालानां मृगतृष्णायां मिथ्या जलमिति ग्राहो भवति, ननु निर्जला
सा मृगतृष्णेति तत्र पण्डितजातीयेन पुरुषेणोच्यते तस्य ग्राहस्य विनिवर्तनार्थम् । एवं
निःस्वभावेषु यः स्वभावे ग्राहः सत्त्वानां तस्य व्यावर्तनार्थं निःस्वभावाः सर्वभावा
त्युच्यत इति ।
अत्र ब्रूमः ।
 
नन्वेवं सत्यस्ति ग्राहो ग्राह्य च तद्ग्रहीता च ॥
प्रतिषेधः प्रतिषेध्यं प्रतिषेद्धा चेति षट्कम्तत् ॥ १४ ॥
 
यद्येवम् अस्ति तावत्सत्त्वानां ग्राहः, अस्ति ग्राह्यम्, सन्ति च तद्ग्रहीतारः, अस्ति
प्रतिषेधस्तस्यापि मिथ्याग्राहस्यास्ति प्रतिषेध्यं यदिदं मित्र्याग्राहो नाम, सन्ति च प्रति-
षेद्धारो युष्मदादयोऽस्य ग्राहस्येति सिद्धं षट्कम् । तस्य षट्कस्य सिद्धत्वाद् यदुक्तं
शन्याः सर्वभावा इति तन्न ।
 
१, सिद्धयते (JK)
 
२ प्रतिबेध्यतो - ॥ (JK)