2023-09-24 02:42:15 by ambuda-bot
This page has not been fully proofread.
१९
इह च धर्मावस्थोक्तानां नैर्याणिकानां धर्माणां नैर्याणिक: स्वभावः, अनैर्याणि -
कानामनैर्याणिक: बोध्यंगिकानां बोध्यंगिकः, अबोध्यंगिकानामबोध्यंगिकः, बोधि-
पक्षिकाणां बोधिपक्षिकः, अबोधिपक्षिकाणामबोधिपक्षिक: । एवमपि शेषाणाम् ।
तद्यस्मादेवमनेकप्रकारो धर्माणां स्वभावो दृष्टस्तस्माद् यदुक्तं निःस्वभावाः सर्वभावा
निःस्वभावत्वाच्छून्या इति तन्न ।
किञ्चान्यत् ।
यदि च न भवेत्स्वभावो धर्माणां निःस्वभाव इत्येव ।
नामापि भवेन्नैवं नाम हि निर्वस्तुकं नास्ति ॥ ६॥
यदि सर्वधर्माणां स्वभावो न भवेत्तत्रापि निःस्वभावो भवेत् । तत्र निःस्वभाव
इत्येवं नामापि न भवेत् । कस्मात् । नाम हि निर्वस्तुकं किञ्चिदपि नास्ति । तस्मा-
नामसद्भावात् स्वभावो भावानामस्ति स्वभावसद्भावाच्चाशून्याः सर्वभावा: । तस्माद्
• यदुक्तं निःस्वभावाः सर्वभावा निःस्वभावत्वाच्छून्या इति तन्न ।
किञ्चान्यत् ।
अथ विद्यते स्वभावः स च धर्माणां न विद्यते तस्मात् ॥
धर्मविना स्वभावः स यस्य तद्युक्तमुपदेष्टुम् ॥ १० ॥
अथ मन्यसे मा भूदवस्तुकं नामेति कृत्वास्ति स्वभावः, स पुनर्धर्माणां न संभवति,
एवं धर्मंशून्यता निःस्वभावत्वाद् धर्माणां सिद्धा भविष्यति, न च निर्वस्तुकं नामेति, अत्र
वयं ब्रूमः । एवं यस्येदानीं स स्वभावो धर्मविनिर्मुक्तस्यार्थस्य स युक्तमुपदेष्टुमर्थः।
स च नोपदिष्टः । तस्माद् या कल्पनास्ति स्वभावो न स पुनर्धर्माणामिति सा होना ।
किञ्चान्यत् ।
सत एवप्रतिषेधो नास्ति घटो गेह इत्ययं यस्मात् ॥
दृष्ट: प्रतिषेधोऽयं सतः स्वभावस्य ते तस्मात् ॥ ११ ॥
**